________________
नवेम्बर
चाऽसम्भवः, ततस्तदङ्गीकारः, इति बुद्धिलक्षणम् ॥१४॥
रूपवद्वत्तीत्यादि । रूपवती(ति)वृत्तिर्यस्याः २३सा तथा । गगने नास्ति वृत्तिर्यस्य स तथा । अपेक्षाबुद्ध्या अजन्यः । एतद्विशेषणत्रयविशिष्टे सामान्यगुणे वृत्तिर्यस्याः सा तथेति जातिविशेषणम् । गुरुत्वादन्या गुणत्वस्याऽवान्तरा चेति विशेषणद्वयं च जाति(ते)रेवेति । तत्र जातिः द्रवत्वमित्युक्ते सत्तायामतिव्याप्तिः, अतोऽवान्तरेति । तावत्युक्ते च द्रव्यत्वादावतिप्रसङ्गः, ततो गुणत्वेति । गुरुत्वे चाऽतिव्याप्तिव्यवच्छेदाय गुरुत्वान्येति । रूपत्वादावतिव्याप्तिभङ्गाय सामान्यगुणवृत्तीति । संख्यात्वादावतिव्याप्तिनिरसनाय अपेक्षाबुद्धयजन्येति गुणविशेषणम्। तावत्यभिहिते च संयोगत्वादावतिव्याप्तिः, ततो गानाऽवृत्तीति। रूपवद्वृत्तीति विशेषणं च व्यवच्छेद्याभावेन व्यर्थमिव प्रतिभातीति चिन्त्यम् ।
अत्राऽऽह कश्चित्, गगनेत्यादिलक्षणे कृते संस्कारत्वजातावतिव्याप्तिः, वेगस्य गगनाऽवृत्त्यपेक्षाबुद्धयजन्यसामान्यगुणत्वात्, गुरुत्वान्यगुणत्वाऽवान्तर जातित्वाच्च संस्कारत्वस्येति, तद्व्यवच्छेदार्थं रूपवद्वत्तीतिविशेषणम् ॥२४
तदयुक्तम् । वेगस्यापि रूपवद्वृत्तित्वेनाऽतिव्याप्तेस्तदवस्थत्वात् । न च रूपवद्वृतिपदस्य रूपवन्मात्रवृत्तित्ववाचकत्वेन विवक्षित्वात्, वेगस्य च तन्मात्रवृत्तित्वाभावात् तद्वृत्तिविशेषणोपादानात् तत्राऽतिव्याप्तेः परिहार इति वाच्यम् । तदा गगनाऽवृत्तीति विशेषणस्य वैयर्थ्यापातात्, रूपवन्मात्रविशेषणेनैव तस्य चरितार्थत्वादित्यलं प्रसङ्गेनेति । गगनावृत्ति-जातिव्य(व)त्वमित्युक्ते च परत्वादावतिव्याप्तिः, तदन्तकृते अपेक्षाबुद्धयजन्येति । तावत्युक्ते च मनस्त्वादावतिव्याप्तिः, अतः सामान्येत्यादि । गुणव्यतिरेके लक्षणे त्वसम्भवः, तन्निवृत्त्यर्थं गुणेति । सामान्यपदं सुखत्वादावतिव्याप्तिनिरासार्थम् । गुरुत्वजातावतिव्याप्तिव्यपोहाय गुरुत्वान्येति । तावति कृते च सत्तादावतिव्याप्तिव्यवच्छेदाय गुणत्वावान्तरेति । शेष सुगमम् । इति द्रवत्वलक्षणम् ॥१५॥
गगनवृत्तीत्यादि । गगने वृत्तिर्यस्य स तथा । एतादृशो यो विशेषगुणस्तत्र वृत्तिरस्याः सा तथा । रूपे नास्ति वृत्तिर्यस्याः सा तथा । एतद्विशेषणद्वयविशिष्टा जातिः शब्दत्वमित्यर्थः ॥ तत्र जातिः शब्दत्वमित्युक्ते सत्तादावतिव्याप्तिः, तन्निवृत्त्यर्थं रूपाऽवृत्तीति । कर्मत्वादावतिव्याप्तिव्यवच्छेदार्थं गुणवृत्तीति । तथा च संयोगत्वादावतिव्याप्तिव्यवच्छेदाय विशेषेति । तथा च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org