________________
नवेम्बर
29
विशेषणोपादानं१८ च संख्यात्वादावेवाऽतिव्याप्तिस्तन्निवृत्त्यर्थं शेषविशेषणोपादानमिति परिमाणत्वलक्षणम् ॥८॥
अपेक्षेत्यादि । अपेक्षाबुद्धिरसाधारणकारणं यस्य स तथा । एतावता एतादृशो गुणस्स कश्चित् तत्र वृत्तिरस्याः सा तथा । समयः कालस्तत्र वृत्तिर्यस्य स तथा । स चाऽसौ गुणश्च, तत्र वृत्तिर्यस्य स तथा, स चाऽसावत्यन्ताभावश्च, तस्याऽप्रतियोगिनी कालसमवेत->गुणवृत्तिरित्यर्थः । संख्यायां नास्ति वृत्तिर्यस्याः सा तथा । तत: पूर्ववत् समास इति ।
तत्र जाति: पृथक्त्वमित्युक्ते संख्यात्वादावतिव्याप्तिः, अतः संख्यावृत्तीति । तावत्युक्ते च द्रव्यत्वादावतिव्याप्तिः, अत उक्तं गुणेत्यादि । तावत्युक्तेऽपि रूपत्वादावतिव्याप्तिः, ततः समयवृत्तीति-गुणविशेषणम् । तथा च परिमाणत्वा-दावतिप्रसङ्गः, ततः प्रोक्तमपेक्षेत्यादि । अपेक्षाबुद्ध्यसाधारणकारणवृत्तिजाति: पृथक्त्वमित्युक्ते परत्वादावतिव्याप्तिः, अतः समयेत्यादि । तथापि संख्यात्वेऽति-व्याप्तिरत: संख्याऽवृत्तीति । शेषमुत्तानार्थमिति पृथक्त्वलक्षणम् ॥९॥
द्रव्याऽसमवायीत्यादि । द्रव्यस्याऽसमवायिकारणं यो गुणस्तत्र वृत्तिर्यस्य स तादृक्षः, स चासौ अत्यन्ताभावश्च, तस्याऽप्रतियोगिनी द्रव्यसमवायिकारणगुणे वर्तमानेत्यर्थः । गुणत्वस्याऽवान्तरजातिरिति ।
तत्र जाति: संयोगत्वमित्युक्ते सत्तायामतिव्याप्ति:, इत्युक्तमवान्तरेति । तथा च द्रव्यत्वेऽतिव्याप्तिः, अतो गुणत्वेति । तथा च रूपत्वादावतिव्याप्तिः, अतो द्रव्यत्वेत्यादि । आद्यविशेषणोपादाने सत्तादावतिव्याप्तिः, तदपाकृतये गुणत्वेत्याधुक्तमिति संयोगत्वलक्षणम् ॥१०॥
क्रियेत्यादि । क्रिया-कर्म असमवायिकारणं यस्य स तथा । तथा च प्रशस्तपादभाष्यं - संयोग-विभाग वेगा: कर्मजा इति ॥ द्वयोस्तिष्टतीति द्विष्टः । ततो विशेषणद्वये गुणपदेन कर्मधारयः । तादृशे गुणे वृत्तिर्यस्याः सा तथा । संयोगे नास्ति वृत्तिर्यस्याः सा तथा । गुणत्वस्य साक्षाव्याप्यजातिरिति व्याख्या(प्या)न्तविशेषणेन पूर्वं समासे कृते वृत्त्यन्तविशेषणद्वयेन ततः कर्मधारय एव कार्य इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org