________________
अनुसन्धान ३४ चैकत्वादावतिव्याप्तिः, ततो गुणत्वपुरःसरं साक्षादिति पदम् । इयत्युक्ते च परिमाणत्वादावतिव्याप्तिः, अत: परिमाणेत्याद्यवच्छिन्नान्तं जातिविशेषणम् । तथापि संयोगत्वादावतिव्याप्तिः, अतो द्विष्टेत्यादि । विभागत्वादावतिव्याप्तिव्यपोहार्थं मात्रेति । तावत्युक्तेऽपि रूपत्वादावतिव्याप्तिः, अतः सामान्येत्यादि । तथा च गुरुत्वादावतिव्याप्तिः, अत उक्तं गगनेत्यादि । गगनसमवेतगुणवृत्तिजाति: संख्यात्वमित्युक्ते शब्दत्वेऽतिव्याप्तिः, अत: सामान्येति । तथा च संयोगत्वादावतिव्याप्तिः, तदपोहार्थं द्विष्टेत्यादि । तथा च परिमाणत्वादावतिव्याप्तिः, ततः परिमाणेत्यादि । एवमपि एकत्वादावतिप्रसङ्गः ततः प्रोक्तं गुणत्वसाक्षाद्व्याप्येति । द्वितीय - चतुर्थविशेषणोपादाने च परिमाणत्वादावतिव्याप्ति:, अतस्तृतीयविशेषणोपादानम् । शब्दत्वादावतिव्याप्तिव्यपोहार्थंमाद्यं विशेषणम् । गगनसमवेतगुणत्वसाक्षाद्व्याप्यजातिरित्युक्ते चाऽसम्भवः, तदपोहाय सामान्यगुणवृत्तीति । शेषं स्वयमेवोऽभ्यूह्यमिति संख्यात्वलक्षणम् ॥७॥
28
संख्यासमवायीत्यादि । संख्या असमवायि कारणं यस्य स तादृक् । तत्र वृत्तिर्यस्याः सा तथा । अपेक्षाबुद्धिरसाधारणं कारणं यस्य स तथा । एतावता परत्वाऽपरत्वं-द्वित्व - द्विपृथक्त्वादयो गुणास्तथारूपा लभ्यन्ते । तथा च प्रशस्त भाष्यं परत्वाऽपरत्व-द्वित्व-द्विपृथक्त्वादयो बुद्ध्यपेक्षा इति ॥
तत्र नास्ति वृत्तिर्यस्याः सा तथा, गुणत्वस्य साक्षाद्व्याप्या, ततो विशेषणत्रयस्य जात्या सह कर्मधारय इति । यद्वा साक्षाद्व्याप्या चासौ जातिश्चेति, ततो गुणत्वपदेन सम्बन्धवाचकविभक्त्यन्तेन समासः । ततः प्राचीनविशेषणद्वयेन कर्मधारय इति ।
तत्र जाति [ : ] परिमाणत्वमित्युक्ते सत्तायामतिव्याप्तिः, अतो व्याप्येति । घटत्वादावतिव्याप्तिभङ्गाय गुणत्वेति । तथा च नीलत्वादावतिव्याप्तिः, तदपोहाय साक्षादिति । तथा च परत्वादावतिव्याप्तिः, ततोऽपेक्षेत्यादि । तथा च रूपत्वादावतिव्याप्तिः, तदर्थमुक्तं संख्येत्यादीति । संख्यासमवायिकारणकवृत्तिः जाति: परिमाण[त्व]मित्युक्ते संख्यात्वादावतिव्याप्तिः, तस्याप्येकत्वसंख्यासमवायिकारणकद्वित्वादिगुणवृत्तिजातित्वात्, अत उक्तमपेक्षेत्यादि । तावत्युक्तेऽप्यणुत्वादावतिव्याप्तिः, अतो गुणत्वेत्यादि प्रत्यपादि । द्वितीयविशेषणमात्रोपादाने रूपत्वा[दा]वतिव्याप्ति:, अतः प्रथमं तदुपादानम् । शेषं पूर्ववत् । आद्यान्त्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org