SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नवेम्बर 27 रूपत्वेत्यादि । रूपत्वमेव लक्षणं स्वरूपं यस्य तत्तथा । तच्च तदवच्छेदकं १३, तेनाऽवच्छिन्नं विशिष्टम् । एतावता रूपमित्यर्थः । तथाभूतविशेषणस्याऽन्या(?)धिकरणकत्वाभावात् तस्याऽत्यन्ताभावः, तस्याधिकरणं सदापि रूपरहितमिति भावः । विभुत्वस्य सकलमूर्त्तद्रव्यसंयोगित्वस्याऽनधिकरणं मूर्तमित्यर्थः । तादृशे द्रव्ये वृत्तिरस्येति तथा । विशेष्यति(ते)द्रव्यमनेनेति विशेषः, स चाऽसौ गुणश्च, तादृक् चाऽसौ विशेषगुणश्चेति विग्रहः । तत्र वत्तिर्यस्याः सा तथा । अवान्तरे वर्तमाना जातिरवान्तरजातिः । गुणत्वस्याऽवान्तरजातिः सा तथा । गुणत्वस्य साक्षाद्व्याप्यजातिरित्यभिसन्धिः । ततश्च वृत्त्यन्तविशेषणेन कर्मधारय इति । तत्र जातिः स्पर्शत्वमित्युक्ते सत्तायामतिव्याप्तिः, ततोऽवान्तरेति । तथा च द्रव्यत्वेऽतिप्रसङ्गः, ततो गुणत्वेप्ति । तावत्युक्ते संयोगत्वादावतिव्याप्तिः, तत उक्तं विशेषगुणवृत्तीति । तावत्युक्ते शब्दत्वादावतिव्याप्तिः, ततो वक्ति विभुत्वेत्यादि । तथा च रूपत्वादावतिव्यापकता, तस्यापि विभुत्वाऽनधिकरण घटादिद्रव्यवृत्तिविशेषगुणवृत्तित्वाद् गुणत्वावान्तरजातित्वाच्चेत्युक्तं रूपत्वेत्यादि । गुणवृत्त्यन्ते च लक्षणे कृते गुणत्वादावतिव्याप्तिः, तन्निवृत्त्यर्थमुक्तं गुणत्वेत्यादीति । विभुत्वानधिकरणेति द्रव्यविशेषणव्यतिरेके च सुखत्वादावतिव्याप्तिः, तदर्थं तदुपादानम् । विशेषपदाभावे च संयोगत्वादावतिव्याप्तिः, तदपोहाय तदुपादानम्। विशेषान्ते च लक्षणे कृतेऽसम्भवः, तदपोहार्थं विशेषपदस्य गुणविशेषणोणार्थं गुणत्वेत्यादीति । इति स्पर्शत्वलक्षणम् ॥६॥ गगनेत्यादि । गगने समवेतो यः सामान्यगुणः, तत्र वृत्तिर्यस्याः सा तथा । द्वयोस्तिष्टतीति द्विष्टः, स चासौ गुणश्च संयोगादिलक्षणः, तन्मात्रेसर्वस्मिन्नपि द्विष्टगुणे नास्ति वृत्तिर्यस्याः सा तथा । परिमाणं च पृथक्त्वं च तयोः तिष्टा-स्थितिर्यस्य स तथा । स चाऽसावत्यन्ताभावश्च, तस्य प्रतियोगिनी, तद्भावस्तत्ता, सैवाऽवच्छेदकं, तेनाऽवच्छिना गुणत्वस्य साक्षाद्वयाप्या चाऽसौ जातिश्च । जातौ व्याप्यत्वं च स्वसमानाधिकरणजातिसमानाधिकरणात्यन्ताभावप्रतियोगिजातित्वमिति । तथा च विशेषणचतुष्टयेन समानाधिकरणसमास इति । तत्र जाति: संख्यात्वमित्युक्ते सत्तायामतिव्याप्तिः, अतो व्याप्येति । तावत्युक्तेऽपि द्रव्यत्वादावतिप्रसङ्गः, तद्व्यवच्छेदकृते गुणत्वेति । तथा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy