SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अनुसन्धान ३४ मित्युक्ते तैजस्त्वादावतिव्याप्तिः, तस्यापि तैजसेन्द्रियमात्रग्राह्यप्रदीपप्रभादिद्रव्यवृत्तित्वात्, रसावृत्तित्वाच्च । ततो गुणपदम् । तैजसेन्द्रियमात्रग्राह्यजाती रूपत्वमित्युक्ते नीलत्वादावतिव्याप्तिः, अतो गुणत्वसाक्षाद्व्याप्यत्वे सतीति द्रष्टव्यम्। अन्यथा सकलपदसङ्ग्रहेऽपि लक्षणे तत्राऽतिव्याप्तिस्तदवस्थैवेति रूपत्वलक्षणम् ॥३॥ . रूपावृत्तीत्यादि । रूपे नास्ति वृत्तिर्यस्याः सा तथोक्ता । जलस्य जलमयं वा इन्द्रियं जलेन्द्रियं-जिह्वा, तेन ग्राह्यः, स चाऽसौ गुणश्च, तत्र वृत्तिरस्या इति तथा । ततः पूर्ववदेवेति । तत्र जातिः रसत्वमित्युक्ते द्रव्यत्वादावतिव्याप्तिः, अतो गुणवृत्तीति । तावत्युक्ते धर्मत्वादावतिव्याप्तिः, तत इन्द्रियग्राह्येति गुणविशेषणम् । तथा च गन्धत्वादावतिव्याप्तिः, इत्यतो जलेति। इयत्युक्तेऽपि सत्तादावतिव्याप्तिः, तन्निवृत्त्यर्थं रूपावृत्तीति । अथ रूपावृत्तीत्युक्ते आत्मादावतिव्याप्तिः, अतो जातिरित्युक्तम् । तथा च कर्मत्वादावतिव्याप्तिः, ततो जलेन्द्रियग्राह्येति । तथा च मधुरत्वादावतिव्याप्तिः, अतो गुणत्वावान्तरत्वे सतीति बोद्धव्यम् । अन्यथा समग्रलक्षणेऽपि तत्प्रसङ्गादिति । जलेन्द्रियग्राह्यजाती रसत्वमित्युक्ते सत्ता-गुणत्वादावतिव्याप्तिः, तदर्थमाद्यविशेषणम् । गुणवृत्तीतिपदं च स्पष्टार्थमिति रसत्वलक्षणम् ॥४॥ पार्थिवेन्द्रियेत्यादि । पृथिव्या विकार: पार्थिवं पृथिवीद्रव्यनिःपन्नमित्यर्थः । पार्थिवं च तदिन्द्रियं च तथा, नासिकेत्यर्थः । तेन ग्राह्यः, स चाऽसौ गुणश्च, तत्र वृत्तिर्यस्याः सा तादृक् ।१० ततो वृत्त्यन्तविशेषणद्वयेन प्राग्वद् विग्रह इति । तत्र जातिर्गन्धत्वमित्युक्ते स्पर्शत्वादावतिव्याप्तिः, अतः स्पर्शावृत्तीति । तथा च द्रव्यत्वादावतिव्याप्तिः, ततो गुणवृत्तीति । तथा च धर्मत्वादावतिव्याप्तिः, तदर्थमिन्द्रियग्राह्येति गुणविशेषणम् । तावत्युक्तेऽपि रूपत्वादावतिप्रसङ्गः, तदपोहार्थं पार्थिवेतीन्द्रियविशेषणम् । पार्थिवं गन्धत्वमित्युक्ते चाऽसम्भवः, अतो जातिरिति । तथा१२ सामानाधिकरण्येऽसम्भवः, वैयधिकरण्ये च घटत्वादावतिव्याप्तिः, तदपोहार्थमिन्द्रियग्राह्येति । तथा च सत्तादावतिव्याप्तिः, अत उक्तं स्पर्शावृत्तीति । तावत्युक्ते न कोऽपि दोषस्तथापि गुणवृत्तीति पदं स्पष्टार्थमिति सम्भाव्यते । सुरभित्वादावतिव्याप्तिव्यपोहार्थं गुणत्वावान्तरत्वे सतीति द्रष्टव्यमिति गन्धैत्वलक्षणम् ।।५।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520534
Book TitleAnusandhan 2005 11 SrNo 34
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages66
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy