________________
नवेम्बर
25
इत्यर्थः । तेषु नास्ति वृत्तिर्यस्याः सा तथा । आत्मनि वृत्तिर्यस्य स तथा, स चाऽसावत्यन्ताभावश्च, तस्याऽप्रतियोगिनी, तत्रैव तस्या वर्तमानत्वात् । नहि यद् यत्र वर्तते तत् तदधिकरणात्यन्ताभावप्रतियोगि स्यादिति द्रव्यत्वादन्या सा तादृग् । ततश्च विशेषणानां त्रयस्यापि जात्या सह कर्मधारय इति ।।
अथ विशेषणानां अतिव्याप्त्यादिलक्षणदोषविनिवारकत्वेन साफल्यं दर्श्यते । तत्र 'जातिरात्मत्वं' इत्युक्ते द्रव्यत्वेऽतिव्याप्तिः, अत उक्तं द्रव्यत्वान्येति । तथा च मनस्त्वादावतिव्याप्तिः, अत आत्मवृत्त्येत्यादि । एवमपि सत्तायामतिव्याप्तिस्तत आत्मेत्याधुक्तम् । ५आत्मगुणोप(पा)दाने सत्तादावव्याप्तिस्तत आद्यं, प्रथम-तृतीयविशेषणोपादाने च कर्मत्वादावतिप्रसङ्गस्ततो द्वितीयविशेषणाङ्गीकार इत्यात्मत्वलक्षणम् ॥१॥
गगनेत्यादि । गगने नास्ति वृत्तिर्यस्याः सा । तथा स्पर्शवत्, तस्याऽत्यन्ताभावस्तस्याऽधिकरणं सर्वदा स्पर्शशून्यमित्यर्थः । तादृशेष क्रियावति वृत्तिर्यस्याः सा तथोक्ता । एतच्च वृत्त्यन्तं विशेषणद्वयं जातेरिति तथैव समास इति । तत्र 'जातिर्मनस्त्वं' इत्युक्ते आत्मत्वादावतिव्याप्तिः, अतः क्रियावद्वत्तीति। तथापि वायुत्वादावतिव्याप्तिः, अतः स्पर्शवत्त्वेत्यादि । सत्तादावतिव्याप्तिव्यवच्छेदार्थं गगनावृत्तीति । गगनावृत्ति जातिम(म)नस्त्वमित्युक्ते वायुत्वादावतिव्याप्तिस्ततः स्पर्शवत्त्वेत्यादि । तथा च कर्मत्वादावतिव्याप्तिरतः क्रियावदिति- मनस्त्वलक्षणम् ॥२॥
रसावृत्तीत्यादि । रसे नास्ति वृत्तिरस्याः सा । तथा तैजसं च तदि[न्द्रि]यं च तैजसेन्द्रियं, चक्षुरित्यर्थः । तदेव तन्मात्रम् । तेन ग्राह्यः, स चाऽसौ गुणश्च । तत्र वृत्तिरस्याः सा । तथा तदनु वृत्त्यन्तविशेषणद्वयेन कर्मधारय इति । तत्र जाती रूपत्वमित्युक्ते द्रव्यत्वादावतिव्याप्तिः, तदपोहार्थं गुणवृत्तीति । तथा च धर्मत्वादावतिव्याप्तिः, इति इन्द्रियग्राह्येति गुणविशेषणम् । तथापि स्पर्श-त्वादावतिव्याप्तिः, अतस्तैजसेतीन्द्रियविशेषणम् । संयोगत्वादावतिव्याप्तिव्यपोहाय मात्रान्तं तैजसेन्द्रियपदम् । तस्मिन्नपि सकलपदकदम्बके प्रतिपाद्यमाने सत्ता-गुणत्वादावतिव्याप्तिः, अतो रसावृत्तीति । रसावृत्ती रूपत्वमित्युक्ते द्रव्यत्वादावतिव्याप्तिः, ततो जातिरिति । तथा चात्मत्वादावतिव्याप्तिः, तदर्थं तैजसेन्द्रियमात्रग्राह्येति । रसावृत्ति-तैजसेन्द्रियमात्रग्राह्यवृत्ती(त्ति)जाती रूपत्व
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org