SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ 40 अनुसन्धान ३३ प्रादुर्भवत्किञ्चिदरालदन्त-च्छलादिवाऽऽकृष्य विधुं वियत्तः । उत्क्षिप्तशुण्डाः करिणः सृजन्ति दृष्टेन्दुदर्श कुहुमंगमैआत् (?) ॥११२॥ पुरीपुरन्ध्या वसुधाधवेन केनाप्यद्दत्तां कटिमेखलां द्राक् । वप्रश्रियादादवरंगसाहिः कूलङ्कषा चारुदुकूलवत्याः ॥११३॥ यस्य प्रतापोग्रहुताशनाग्रे, भ्राताऽनुजस्तन्मयतामवाप । जितोऽग्रजन्माऽप्यमुना रयेण चक्री यप्तद्यौ (?)(च पूज्यो?) वहलीनृपेण ॥११४|| एतत्प्रबन्धप्रतिबन्धबद्ध-सन्धो जरासन्ध इवाऽवलिप्तः । नासीरसीनोल्लिखितोऽप्यभीते-मरुस्थलेशः स विसंस्थुलोऽभूत् ॥११५।। आचन्द्रसूर्यस्पृहणीयतेजाः सर्वत्र सम्प्राप्तजयोऽपि किञ्चित् । न लोकबाधाय बभूव नीति-रहो महोत्साहकरी न कस्य ॥११६॥ प्रजाव्रजानीतिसुभिक्षभावाद् यद्भाग्ययोगोऽनुमितो गरीयान् । स शास्ति शास्ता ह्यवरंगसाहिः पुरीमिमामिन्द्रपुरीमिवेन्द्रः ॥११७॥ प्रबर्हबर्हानपुरादथाऽस्मात्, गुरोनिदेशं समवाप्य शिष्यः । प्राप्तो विशेषाद्विनयावनम्रः, करोति विज्ञप्तिमिमां स मेघः ॥११८॥ अथ समाचाराः ॥ अनाद्यविद्येव तिमिश्रवल्ली, रूढातिगाढेऽम्बरकक्षकक्षे । तारावतारप्रसवैरुपेता कन्या रजन्या परिवर्तिताऽत्र ॥११९।। जाते प्रभातेऽथ सहस्ररश्मिः पूर्वाचलोत्तुङ्गशिलाचले द्राक् । उत्तेजयंस्तीक्ष्णमयूखखड्गान् जहार दावानलवत्तदैनाम् ॥१२०॥ नभःसरस्याः सलिले ललन्त्य-स्ताराबलाकावलयः समन्तात् । दैवात् प्रविष्टे रविहस्तिमल्ले उड्डीय ताः क्वापि गता अलक्षाः ॥१२१॥ घने वनेऽस्मिन् गगने समज्या, नक्षत्रनाथस्य निशाचरस्य । शूरागमादेव जवेन नंष्ट्वा , क्वाप्यस्तशैलान्तरिता बभूव ॥१२२।। निःशूरभावेऽपि तमोनिवृत्तिः कृता कथञ्चिद् द्विजनायकेन । स(सा?)केवलादेव कलङ्कसङ्गाद् वैवर्ण्यमापद्दिवसाननेऽस्मिन् ॥१२३।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520533
Book TitleAnusandhan 2005 09 SrNo 33
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages102
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy