SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ 122 72 ति क्विपि नपुंसके ह्रस्वत्वे आनि ॥ ३६-३७॥युग्मम् ॥ अप्यन( न्य)स्मिन् जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदभ्येति भानुः । कुर्वन् सन्ध्याबलिपटहतां शूलिनः श्लाघनीयामामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥३८॥ व्याख्या ( ? ) ... अनुसन्धान ३२ 'पादन्यासक्वणितरसनास्तत्र लीलावधूतै रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपदसुखान् प्राप्य वर्षाग्रबिन्दूनामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान् कटाक्षान् ॥३९॥ व्याख्या-अप्य[न्य]स्मिन्नित्यादि । जलधरो - मेघस्तद्वत्, "महा उत्सव तेजसी" इति वाक्यात्, महस्तेज उत्सवो वा यस्य तस्य सं० हे जलधरमह ! नाये - न्याये, "नो बुद्धौ ज्ञानबन्धयो" रिति वाक्यात्, नो-बुद्धिर्यस्य तस्य सं० हे नयन ! । सं- शोभनं ध्यायति - चिन्तयति जनानां ड प्रत्यये सन्ध्यः तस्य सं० हे सन्ध्य !! आ-समन्तात् बलिनरेन्द्रवत् पटहो- दानसम्बन्धी यस्य तस्य सं० हे आबलिपटह ! | भवान् विषयं-देशमासाद्य प्राप्य अस्मिन् काले अभि- भीरहन्ति (भीरहितं) यथा स्यात्तथा एति चलति । देशं किम्भूतं ? स्थातव्यं - निवासयोग्यम् । कस्य ? ते तव । पुनः किम्भूतं ?, अकालं- धवलं नि:पापत्वात् । अथवा, अकं-दुःखं अलति-वारयतीति अकालः तं अकालम् । अथवा, न विद्यते काल:दुःकाल:- मरणं वा यत्र सः, तं अकालम् । देशमित्यत्रैकत्वं जातेरेकत्वनिर्देशात् (द्)ज्ञेयम् । भवान् किम्भूतः ?, भानु:- तस्करादिनाशकत्वात् भास्करत्वात् सूर्यतुल्यः इत्यर्थः । अपि पुनरर्थे । भवान् गर्जितानां - मत्तकुञ्जराणां, “गर्जितो मत्तकुञ्जरे" इत्यनेकार्थवाक्यात् फलं -लाभं लप्स्यसे । फलं किम्भूतं ? अविकलंमनोज्ञं । भवान् किं कुर्वन् ? शूलिनः श्लाघनीयां - महेशस्य श्लाघ्यां ईदृशीं तां -- लक्ष्मीं कुर्वन् सृजन् । गर्जितानां किम्भूतानां ?, आ समन्तात् मन्द्रो मधुरगम्भीरो ध्वनिर्येषां तेषां आमन्द्राणाम् । "निस्तु नेतरी " ति अनि पतिरहितं यथा स्यात्तथादेशमासाद्य । शेषं तथैव व्याख्येयम् । फलं किम्भूतं ? या - लक्ष्मीः अस्मिन्नस्तीति यावत् कर्मतामापन्नम् ॥३८॥ १. पाठोऽयमधिको लिखितोऽस्तीति प्रतिभाति ॥ Jain Education International For Private & Personal Use Only - www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy