SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ June-2005 71 त(भ)वान् स्त्रीणां ग्लानि-बलहीनतां हरति-अपनयति । भवान् किं कुर्वन् ?, दीर्घ(/)कुर्वन् । किं?, कलं-मधुरध्वनं(नि), किम्भूतं ?, सारसानां-पक्षिविशेषाणां कूजितमिव कूजितं सारसशब्दतुल्यमित्यर्थः । भवान् किं० ?, आ समन्तात् मोदः-प्रमोदः 'अपास्ताशेषदोषाणा'मित्यादिलक्षणसूचितः, तथा मैत्री – मा कार्षीत् कोऽपि पापानी' त्यादिलक्षणसूचिता । तयोः कषायः-रसो विद्यते यत्र सः मोदमैत्रीकषायः । "कषायाः]सुरभौ रसे रागवस्तुनि निर्यासे क्रोधादिषु विलेपने वर्णे "इत्यनेकार्थः । पुनः किम्भूतः ?, अङ्गेन-वपुषा-अनुकूलाः]-प्रशस्तः सः अङ्गानुकूलः । अथवा अङ्ग इत्यामन्त्रणे, अनुकूलः कुटुम्बादीनां हितत्वात् । पुनः किं०?, सिप्रावात इव प्रियतमाः। अथवा सिप्रानदी यथा जनानां तीर्थभूतत्वेन प्रियतमाः(मा)तथा भवानपि । तथा वातो-वायुः स इव प्रियतमः । पुनः किम्भूतः ? प्रार्थनाचाटुकं-प्रियवाक्यात्मकं आरं-अरिसमूहो यस्य सः प्रार्थनाचाटुकारः ॥३३॥ 'हारास्तारांस्तरलगुलिकान् कोटिशः शङ्खशुक्तीः शिष्यश्यामान्मरकतमणीन( नु)न्मयूखप्ररोहान् । यस्यां दृष्ट्वा विपणिरचितान्विद्रुमाणां च भङ्गान् संलक्ष( क्ष्य )न्ते सलिलनिधयस्तोयमात्राविशेषः(षाः) ॥३४॥ व्याख्या-हारास्तारानित्यादिकाव्यं तथैव व्याख्येयम् । नवरं यस्यामित्यादि पदव्याख्याने यस्य श्रीनरेन्द्रस्य आं-लक्ष्मी दृष्ट्वा । शेषं तथैव ॥३४॥ प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जहे हैमं ताल द्रुमावनमाभूदन तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पादित्यागन्तून् रमयति जनो यत्र बन्धूनभिज्ञः ॥३५॥ व्याख्या-प्रद्योतस्येत्यादि । (अतः परं कियानपि पाठो लेखनदोषात् त्रुटित इव आभाति । पत्रक्रमस्य यथाक्रमत्वेऽपि ३५तमस्य पद्यस्य वृत्तिः, ३६-३७ तमे पद्ये च वृत्तिसहिते न दृश्यन्ते । प्रत्यन्तरप्राप्तावेव एतत्पूर्तिः शक्या । सम्पादकः ।) १. क्षेपकोऽयमिति मु. मेध. ॥ २. ०गुटिकान् मु. मेघ. ॥ ३. क्षेपकोऽयमिति मु. मेघ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520532
Book TitleAnusandhan 2005 06 SrNo 32
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2005
Total Pages118
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy