SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ August-2004 इत्याख्यातुमिवाऽऽगत: पिकयुवा यत्कर्णपार्श्वे लसन् वालौघः कलयाम्बभूव कमलामस्तु श्रियेऽर्हन् स वः ||२०|| तुङ्गानङ्गपतङ्गदाहनिपुणे नित्यामृतस्नेहयुग् हृत्पात्रे पृथुधीदशे प्रकटितप्रौढप्रकाशप्रथे । शुक्लध्यानदशेन्धने शुचिरुचो यस्यांऽसभाक् कुन्तल - व्यूहः कज्जलतामुवाह स जिन: पुष्णातु पुण्यानि वः ॥ २१ ॥ आधिव्याधिविरोधवारिगहनात् संसारनीराकराद् घोरादुत्तरतोऽसदेशलसिता: शेवालवल्लयः किमु ? | यस्य स्कन्धतटे जटा घनघटा श्रीकण्ठकण्ठोपमा रेजुर्विश्वगुरोर्गुरोरवतु वः क्लेशात् स आद्योऽर्हताम् ॥२२॥ पर्जन्यास्तव सेवकाः पुनरहं तेष्वेव सौ[ भाग्यवान् ? ] --- [म] हाबलो बलवतां मुख्योऽपि भूयाद् भवान् । किं विज्ञापयितुं भुजङ्गमभुजाबहौघ एष श्रवोमूले मुक्त इति व्यभाद् यदलकस्तोमोऽसयोः स श्रये ||२३|| पद्मानन्दविधायिना न शुचिना वक्त्रेण वीर ! त्वया श्रीर्नेया निधनं सदामृतरुचेश्चन्द्रस्य बन्धोर्मम । एतद् वक्तुमिवाऽऽगता कुवलयश्रेणिः प्रभोः कर्णयोर्यस्या ं सस्थलशालिनीश्रियमधात् केशालिरव्यात् स वः ॥ २४ ॥ श्रेणिं क्षोणिरुहामिवाऽमरगिरिः कादम्बिनीबन्धुरां यः केलिं कलयाञ्चकार चिकुरव्रातं वहन् मूर्धनि । दिश्यात् स प्रवराणि बिभ्रदनघं वर्ष्माऽस्तसत्पद्मिनीगर्भादित्यमदीनहेमविजय श्रीधाम धामानि वः ॥२५॥ श्री ऋषभशतकसरसी विविधालङ्कारकमलपरिकलिता । श्रीलाभविजयपण्डितमतिशरदा निर्मला जयति ॥ २६ ॥ ॥ इति पण्डित श्रीकमलविजयगणिशिष्यभुजिष्य- पं. हेमविजयगणिविरचिते श्री ऋषभशतके जटावर्णनो नाम तृतीयः स्तवः सम्पूर्णः ||३|| Jain Education International 17 For Private & Personal Use Only www.jainelibrary.org
SR No.520529
Book TitleAnusandhan 2004 08 SrNo 29
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy