________________
18
अनुसंधान-२९
श्रेयस्वत्यनघे मम स्थितवत: क्रोडे पितुः शैशवे दत्ता(त्त्वा)ऽऽदावपि यं हरि[वि]हितवानिक्ष्वाकुरित्यन्वयम् । दीक्षायामपि भुक्तिरत्र घटतो तानेव तावद् हृदि ध्यात्वेतीक्षुरसेन यः प्रविदधे प्राक् पारणं स श्रिये ॥१॥ आसीज्ज्येष्ठमिदं मदीयमनघं तीव्र तपो वार्षिक ज्येष्ठेनैव रसेन तेन घटते श्रीकारणं पारणम् । मत्वैवं मधुरेण यो विहितवानिक्षो रसेनाऽशनं वर्षान्ते वृषभः स रक्षतु जगत् संसारनीराकरात् ॥२॥ प्राग्जन्मार्जित विघ्न कर्मसमिधः संवत्सरो दुस्तरो जज्ञे ज्वालयतस्तपोहुतभुजा तीव्रांशुतीव्रण मे । तत्तन्नो भविताऽमुनैव तुहिनः कायो मदीयो भृशं मत्वेतीक्षुरसं पपौ प्रथमके यः पारणे तं स्तुवे ॥३॥ अन्यन्मत्तपसो तपो भगवतां भावि त्रयोविंशतेस्तत् प्राक् पारणकेऽपि भिद् भवतु मे मत्वेति तत्पारणे । पौरस्त्ये परमानमेव कलयन्नब्दान्त आदीश्वरश्चोक्षेणेक्षुरसेन तत्प्रविदधे यः पारणं तं स्तुमः ॥४॥ आद्यः क्षोणिभृतामयं व्रतवतामाद्यस्तथैवाऽर्हतामाद्यः पारणमाद्यमुग्रतपसः पौण्ड्रस्तथाऽऽद्ये(द्यो) रसः ।। सर्वेष्वेष रसेषु तद्भगवतोऽनेनैव भुक्तिः शुभा श्रेयांसेन धियेति ढौकितमपाद् यस्तं स्तुमस्तं जिनम् ॥५॥ पूर्वं पावकपक्वमोदनमसौ नाऽस्ति स्म वेश्मस्थितो दीक्षायामपि पारणे प्रथमके स्तादेवमेव ध्रुवम् । श्रेयांसेन वितीर्णमैक्षवरसं ध्यात्वेति धन्यात्मना यः प्रीतः पिबति स्म पुण्यपदवीपान्थः प्रभु पातु सः ॥६॥ सद्गाम्भीर्यरसेशतातिशयतोऽनेनाऽस्म्यहं निर्जितो मा भूयोऽपि बली पराभवतु मामेषोऽधुनेत्यब्धिरी (?) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org