________________
अनुसंधान-२८
सकलमुत्कलमुत्पललोचनं नमत तं मततन्त्रमगः प्रदम् । मुनिजना निजनायकमादरा
दसितरुक्सितरुक्करुणापरम् ॥७॥ सुकविराजिविराजितपर्षदाश्रितमसंतमऽसंतमसंश्रिया । भजत मालतमाल समुधुतिप्रचुरमर्त्यरमर्त्यपहं गुरुम् ॥८||
भुजगचिह्नममंदममंदकं, चतुरसादरसादरमानकम् । भृशममंदतमंदतरांहसं,
वसुमती तमतीतरसं भजे ॥९॥ मुनिपतेरमृतेरमृतेशितुश्चरणमक्षयमक्षयदं सदा
अरितहन्तुरऽहन्तुरसाछ्ये वितरसोदरसोदरसङ्गरे ॥१०॥
भववृषाय वृषायतसंयमः, शुभवतो भवतो नवदो मम । सुखकृते खकृते विदितावधे,
विमलधीमलधीरिमयुग्विभो ! ॥११॥ सुतनुभाऽतनुभा तनुभावुकं, वृजिनहज्जिनहत्कमलार्यमा । सततमाततमाननृपाचितो, विजयदो जयदोहदपूरकः ॥१२॥
सुमहितानि हितानि वचांसि यः, श्रुतिवशन्तवशंतनु पार्श्वराट् । नयति तस्यतितस्य च दुर्विशं, नरवरः स्तवरस्तमसोज्झितम् ॥१३।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org