________________
July-2004
31
श्रीपार्श्वनाथस्तोत्रम् (सुन्दरीच्छन्दः) ॥ ॐनमः।।
जिनवरेन्द्रवरेन्द्रकृतस्तुते, कुरु सुखानि सुखानिरनेनसः ॥ भविजनस्य जनस्यदशर्मदः,
प्रणतलोकतलोकभयापहः ॥१॥ अविकलं विकलंकमुनिः शिवं, विगतमो गतमोहभरः क्रियात् । विनयवन्ननयवन्नृभिरचितः प्रमददो मददोषमलोज्झितः ॥२॥
मुनिजने निजनेमियुजा मुदं, वितरतातरता च भवांबुधिम् । अविरतं विरतं स ददातु शं,
शिवरमावरमापि हि येन वै ॥३॥ कलिकुमार्गकुमार्गमहामृगद्विपरिपोऽपरिपो परमं पदम् । वितरमे वरमे चरणाम्बुजे, रतिमतोऽममतो महितस्तव ॥४॥
सुरगुरूपमरूपमनोहरैः, प्रवरधीभिरधीभिरसंयुतैः । अभिनुतो भवतो भवतोऽवता
ज्जिनवरोमररोमरकापहृत् ॥५॥ असुमतः सुमतः शुभतीर्थपः सुमहसोऽमहसोज्झितमाधुपः । विदितजातिरऽ जातिरतिः श्रियं, वितनुतात्तनुतामलदीधितिः ।।६।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org