________________
July-2004
(इन्द्रवज्रा छन्दः) इत्थं स्तुतो यो यमकस्तवेन, वामाङ्गजः पार्श्वजिनो जनानाम् । भूयाद्विभूत्यै विभुताप्रशस्तः,
श्रीवल्लभेनाचितपादपद्मः ॥१४॥ इति श्रीपार्श्वनाथजिनं यमकमयं स्तोत्रं समाप्तम् ।
तिमिरीपुरीश्वरश्रीपार्श्वनाथस्तोत्रम्
समस्यामयं (वसंततिलकावृत्तम्) श्रीपार्श्वनाथजिनपं तमहं स्तवीमि, दृष्ट्वा यदीयवरधारिमवद्धनत्वम् । स्थूलोन्नतोऽपि जनमानसमुत्सुमेरुः, शैलो बिभत्ति परमाणुसमत्वमेषाम् ॥१॥
(इन्द्रवज्रा) वामेय सर्वीयमहं स्मरामि, त्रैलोक्यलोकंपृणवर्ण्यवर्णम् । धर्मोपदेशावसरे यदास्य
चन्द्रो हि पृथ्व्यामुदितो विभाति ॥२॥ (वसंततिलकावृत्तम्) यस्तर्हि पश्यति मुखं सुषमं प्रभाते, निःस्वोऽपि पार्श्वजिन जायत इन्दुरौकाः । मूकः प्रजल्पति शृणोति च कर्णहीनः, पंगुश्च नृत्यति विभातितरां कुरूपः ॥३॥
(इन्द्रवज्रा) श्रीपार्श्वनाथः सततं करोतु, श्रेयांसि भूयांसि नताङ्गभाजाम् । यत्कीर्तिनक्षत्रलसत्तरङ्गर्देदीप्यते व्योमतले समुद्रः ॥४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org