SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ July-2004 (१०) वीचीकैवर्तयद्भम्नं (?), तथा शशिदिवाकरैः । अलं सृजति पोष्याश्च, भग्नाशस्याष्टकं विधेः ॥१०॥ (११) सुखयसि विलपति यत्तत् तृषार्तमेतानि वितर हे मेघ ! । अयि जल मामभ्युन्नत-मिदमम्बुधराष्टकं नाम ॥१॥ सुखयसि तृषोत्ताम्यत्तालुस्खलद्ध्वनिविह्वलं कतिपयपयोबिन्दुस्यन्दैर्न चातकमागतम् । जलधर ! यदा कालात् कोऽपि प्रचण्डसमीरण: प्रवहति तदा न त्वं नाऽयं न ते जलबिन्दवः ॥२॥ विलपति तृषा सारङ्गोऽयं भवानयमुन्नतो जलमपि च ते संयोगोऽयं कथञ्चिदुपस्थितः । उपकृतिकृते प्रहूं चेतः कुरुष्व यदग्रतो भ्रमति पवनः क्व त्वं क्वाऽयं क्व वा जलसंहतिः ॥३॥ यत्तद् गर्जितमूर्जितं यदपि च प्रोद्दामसौदामिनीदामाऽम्बरडम्बरे विरचितं यद्दूरमभ्युन्नतम् । तेषां पर्यवसानमेतदधुना जातं यदम्भोधरं द्वित्रां कृत्रिमरोदनाश्रुतनवोन्मुक्ताः पयोबिन्दवः ॥४॥ तृषार्ते पाथोद ! प्रलपति पुरश्चातकशिशौ यदेतनष्ठुर्यं तदिह गदितुं मा त्वर इति । विपद् वा स्वाधीना किमुत जडता वा परिणता मरुद्वानो वास्यत्यथ घन ! शरद् वा न भवति ।।५।। एतान्यहानि किल चातकशावकेन, नीतानि कण्ठकुहरे स्थितजीवितेन । तस्यार्थिनो ज[ल]द ! पूरय वाञ्छितानि, मा भूत् त्वदेकशरणस्य बत प्रमादः ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520528
Book TitleAnusandhan 2004 07 SrNo 28
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages110
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy