________________
अनुसंधान-२७
दिनपतिः - सत्रपम्, स्वामिन् ! मत्सन्ततिगुणोत्कीर्तनं ममैव नोचितम्,
तथापि रहस्यमेतदेव । मदन्वये भूपतयो महान्तः, सन्तीह काले बहवस्तथापि । सुजाणसिंहाह्वयभूमिपाते, जाते तुं वंशं कलयामि धन्यम्
॥१२॥ अथ शशधरमुपसृत्य, दिनकरः - वयस्य निशापते । त्वमेव विस्तरेण देवपादानां पुरस्तत्कीत्तिं कीर्तय, भट्टारकाः श्रोतुमनासास्सन्ति । शशधरः - भवतु, स्वामिन् !,
भूपाला बहवो भवन्तु भुवने सूर्येन्दुवंशोद्भवा, ये न न्यायविदो न चापि निपुणा नाचारसञ्चारिणः । किं तैः कापुरुषैः कले: सहचरैर्भूभारभूतैः सदा, सत्येवाऽथ सुजांनसिंहनृपतौ राजन्वती भूरियम् ॥१३॥ निःस्वानेषु नदत्सु देशपतयो नश्येयुरस्याऽरयोऽरण्यं चैव विशेयुराशु चकिताः स्युः श्वापदौघास्ततः । ते किं त्वाधिवसेयुरित्यवनिकाक्षोभावनव्याकुला, दिग्यात्राप्रतिषेधमेवमनशे सन्त्यस्य दिग्दन्तिनः ॥१४॥ यो देवान् यजते प्रजाहितकृते वर्यान् द्विजान् वन्दते, धत्ते भक्तिमथाऽच्युते प्रतिदिनं सन्मानयत्यर्थिनः । साधूंस्तोषयति द्विषो दमयति क्षमापालमालेश्वरः,
सोऽयं श्रीमदनूपसिंहनृपतेः सूनून कैः स्तूयते ॥१५॥ देवः - कृतयुगप्रवृत्तिरेवाऽयम् । शशधरः - पुनः किम् ।
देवः - उर्वश्यभिमुखमालोक्य, आर्ये ! इत एहि । उपसृत्य
उर्वशी : - उवट्ठियाम्हि, अज्जा भट्टिणो किमाणविंति ?
देवः - आर्ये !, निर्जरसो जगत्कृत्ये नियोजयितव्याः सन्तीत्यत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org