SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ March-2004 भगवदाज्ञां प्रतीक्षते । देवः - प्रवेशय आशु तम् । अथ दौवारिकः - सुरगणं प्रवेशयति । प्रविश्य, सुराः - जयन्ति देवपादा ! इति कृताञ्जलिपुटा: भट्टारकं प्रणमन्ति । देवः - अस्ति स्वागतं सर्वसुपर्वणामिति हस्तविन्यासेन- सम स्तानाश्वासयति । सुराः - स्वर्लोके चापि भूलोके पाताले वा सुपर्वणाम् । गतिरव्याहता देव ! तव व्याधाम तेजसा ॥८॥ स्मित्वा देवः - जलधरधाराधोरिणि संसेकोत्फुल्लनीपकुसुममिव । स्मेरवपुर्भवदीयं शंसति सत्कामसिद्धिमिदम् ॥९॥ गुरुः - अत्रभवद्भिः किमज्ञातमस्ति, तथापि किञ्चिन्नेत्रातिथीकृतं वृत्तं देवपादानां पुरस्तात् सुराः पृथय(क) पृथय(क्) रूपयितुमुत्सहन्ते । देवः - भवतु । गुरुः - नो प्राची दिशमासमुद्रमखिलाऽपाची प्रतीची तथो दीची देव निरीक्ष्य देशनगरग्रामाभिरामां मुहुः । आलोक्याऽथ पुरं नु विक्रमपुराभिख्यं मरोर्मण्डले, नित्योन्मीलनयोर्यथा नयनयोः साफल्यमाप्तं सुरैः ॥१०॥ देवः - सविस्मयम्, कीदृशं तत् ? कश्च तत्राचारः ? | गुरुः - राजन् ! यत्र सुजाणसिंहनृपतिर्धत्ते भवद्रूपतां, श्रीजोरावरसिंहनामक इदंसूनर्जयन्तायते । देवौपम्यमहो वहन्ति सकला लोकाश्च यद्वासिन स्तत्कि देवपुरेण विक्रमपुरं न स्पर्द्धते साम्प्रतम् ? ॥११॥ अथ देवो रवेर्मुखमालोक्य, ननु भो दिनपते ! गुरुणा मदुपमोऽयमभिहितो भूपः, प्रतिदिनं गगनं गाहमानेन भवताऽऽलोकितोऽपि किं न ज्ञापितः ? । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520527
Book TitleAnusandhan 2004 03 SrNo 27
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2004
Total Pages114
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy