________________
६७
नमस्कृत्ये' त्यस्य व्याख्याने तत्त्वबोधिन्यां मन्ता - वेदशास्त्रार्थतत्त्वावगन्ता, इति । 'मनेरुदेतौ चास्य वा' इत्यौणादिकसूत्रेण मनेरत उकारे मनेः परे इन्प्रत्यये च मुनिः । अथवा मननशीलो मुनिरिति । मुनिशब्दः सप्तसङ्ख्यायामपि । अत्र वेदशास्त्रार्थतत्त्वावगन्ता मुनिर्ग्राह्य: । हूयतेऽसावग्नाविति होम: । 'अर्तीरि-स्तुसु-हु-सृ-घृ-धृ-शृ-क्षि-यक्षि- भा-वा-व्या-धा - पा-या - वलि - पदि - नीभ्यो मः ' ॥३३८॥ इति ‘उणादिश्रीसि० ' सूत्रेण 'हुंक् - दानादनयो: (दानमिह हविष्प्रक्षेप :) धातो: 'म' प्रत्यये, 'पाणिनि' मते च मनिप्रत्यये होम: - आहुति: । " स्याद देवयज्ञ आहुति: होमो होत्रं वषट्कारः" इति हैर्म: । हूयतेऽस्मिन्निति होम: इत्यधिकरणेऽपि पु० ।" देवतोद्देशेन वह्नौ मन्त्रद्वारा घृतादित्यागरूपे हवने; जैनेतरमते तु नित्यं गृहस्थकर्तव्येषु पञ्चसु यज्ञेषु मध्ये देवयज्ञे, श्राद्धीयविप्रपाणौ, श्रद्धी(श्राद्धीय?)यागभागस्य मन्त्रेण दाने च' । होमाय होमस्य वा धेनुः होमधेनुः । मुने: होमधेनुः मुनिहोमधेनुः । मुने: होमार्थं घृतपयोदध्यादिसाधन (नं) नन्दिनी, इदमपि जैनेतरमते एव ।
I
December
2003
अतति, सततं गच्छतीति अत्- सातत्यगमने' धातो: 'सात्मन्नात्मन्वेमन् - रोमन्- क्लोमन् - ललामन् - नामन् - पाप्मन्- पक्ष्मन् - यक्ष्मन्निति' ॥९१६॥ इति 'उणादिश्रीसि० ' सूत्रेण मन्प्रत्ययान्ता, 'पाणिनि मते च मनिण्प्रत्ययान्तो निपातः, अतेर्दीर्घश्चेत्यात्मा जीवः । " क्षेत्रज्ञ आत्मा पुरुषश्चेतनः" इति हैम: । अथवा अतत्यनेनेति आत्मा - स्वभाव: । " स्याद्रूपं लक्षणं भावश्चाऽऽत्मप्रकृतिरीतयः, सहजो रूपतत्त्वं च धर्म: सर्गे निसर्गवत्; शीलं सतत्त्वं संसिद्धिः" इति है : । "आत्मा स्वरूपे, यत्त्रे, देहे, मनसि वृत्तौ, बुद्धौ, अर्के, वह्नौ, वायौ, जीवे, ब्रह्मणि च " ।
'आत्ममातुः स्वसुः पुत्रां, आत्मपितुः स्वसुः सुताः । आत्ममातुलपुत्राश्च विज्ञेया ह्यात्मबान्धवाः ॥ "
Jain Education International
44
इत्युक्त्यनुसारेणाऽत्र आत्मा स्वीयार्थः । अनुचरतीति अनु-उपसर्गपूर्वात् 'चर्-गतिभक्षणयोः' इति धातोः अच्प्रत्यये, 'पा०' मते चट्प्रत्यये अनुचरः
१. अभि० चि० तृ० ८२१ ।
२. अभि० चि० ष० १३६६ |
३. अभि० चि० ष० १३७६-७७।
For Private & Personal Use Only
www.jainelibrary.org