________________
६८
अनुसंधान - २६
अनुगामी । "सहायोऽभिचरोऽनोश्च जीवि -गामि- चर - प्लवाः सेवकः" इति हैर्मः । अनुचरः त्रिलि० सहचरे, पश्चाद्गामिनि दासादौ । अनुगतश्चरं दूतं गतिस० । दूतानुगे त्रि० । आत्मनोऽनुचर: आत्मानुचरः, तस्याऽऽत्मानुचरस्य-स्वसेवकस्य
राज्ञः ।
44
:
भावयति विचारयतीति भूधातोर्णिचि घञि भावः । 'भावो विद्वान् " इति है : । यद्वाऽन्तर्गतवासनात्मतया वर्तमानं रत्याख्यं भावं भावयतीति भावःअङ्गस्याऽल्पो विकार: । “ भावहाव हेलास्त्रयोऽङ्गजाः" इति हैमः । भवत्यस्मिन्निति " वा भाव:- अभिप्राय: पुंक्लीबलिङ्गः । "छन्दोऽभिप्राय आकूतं मतभावाशया अपि " इति हैमैं: । " भावोऽभिप्राय आशयः" इति च यादवः । 'पाणि० ' मते तु भावः पुंलिङ्गः। भावयति चिन्तयति पदार्थान्, चुरादिभूधातोरचि । भौवादिकात् णो वा । "नाट्योक्तौ - नानापदार्थचिन्तके पण्डिते । भावयति ज्ञापयति हृदयगतम्, भू- णिच्-अच् । हृदयगतावस्थावेदके, मानसविकारे, स्वेदकम्पादौ, व्यभिचारिभावे, भू- भावे घञ्, शुद्धधात्वर्थे - यथा पाक इत्यत्र विक्लित्त्यनुकूलव्यापारः पच्धात्वर्थ:, एवमेव विक्लित्त्यनुकूलव्यापारो घञर्थः । " साध्यरूपे सिद्धरूपे वा, क्रियारूपे, धातोरर्थे, रागे, आशये, प्रकृतिजन्यबोधे, प्रकारीभूते, भावे च' । अत्र तु रागार्थ आशयार्थो वा । तं भावम्-अभिप्रायं दृढभक्तित्वम् । ज्ञातुमिच्छति इति 'तुमर्हादिच्छायां सन्नतत्सन: ' ( ३|४|२१|| ) इति 'श्रीसि० 'सूत्रेण ज्ञाधातो: इच्छार्थे सन्, तत: ‘शत्रानशावेष्यति तु सस्यौ' (५|२|२०|) इति 'श्रीसि० ' सूत्रेणाऽऽनशि 'अतो म आने' (४|४|११४ || ) इति 'श्रीसि० ' सूत्रेण मकारागमे आपि च जिज्ञासमाना | 'पाणि० ' मते च ' धातोः कर्मणि (ण) समानकर्तृकादिच्छायां वा' [३|१|७|| ] इति सूत्रेण सन्, 'ज्ञा - श्रृ - स्मृ-दृशां सन: ' [१|३|५७||] इति सूत्रेणाऽऽत्मनेपदम्, 'लटः शतृशानचावप्रथमासमानाधिकरणे' [३।२।१२४|| ] इति सूत्रेण शानचि, 'आने मुक् च (मुक्) [७२८२ ॥ ] इति सूत्रेण मुगागमे टापि च जिज्ञासमाना- ज्ञातुमिच्छन्ती (सती) ।
१. अभि० चि० तृ० ४९६ ।
२. अभि० चि० द्वि० ३३२ ।
३. अभि० चि० तृ० ५०९ ।
४. अभि० चि० ष० १३८३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org