________________
६६
अनुसंधान - २६
च । अत्र त्वावृत्त्यर्थः । त्रयो गुण आवृत्तयो येषां तानि त्रिगुणानि - त्रिरावृत्तानि ।
सप्धातोः कनिनि तुटि च, अथवा सप्धातोः तनिन्प्रत्यये वा सप्तन् पु० | त्रि० "सप्तत्वविशिष्टे सङ्ख्याविशेषे, तत्सङ्ख्यायां च" । सप्त । दीव्यति रविरत्रेति यद्वा द्यति तम इति दोंच्धातोर्नक्प्रत्यये दिनं "सूर्यकिरणोपलक्षिते षष्टिदण्डात्मके तद्विशिष्टे अवखण्डने वा चतुर्यामात्मके काले" तच्च मनुष्याणां षष्टिदण्डात्मकम् । पितॄणां गौणचन्द्रमासात्मकम्, तेषां हि चन्द्रलोकोपरिस्थिते: कृष्णाष्टमीत एव सूर्यस्य तल्लोके किरणस्पर्शसंभवः, शुक्लाष्टम्यां पुनर्भूवृत्तेनाऽच्छादनाच्च न तत्सम्पर्कः । देवानामसुराणां च सौरवर्षकालात्मकम् । ब्रह्मणो दिव्यमानेन युगसहस्रकालात्मकमिति विवेकः" । एतत्सर्वं जैनेतरमते । अत्र तु षष्टिदण्डात्मकं दिनम् । त्रिगुणानि दिनानि - एकविंशतिर्वासराणीत्यर्थः । व्यतीयुः-व्यतिक्रान्तानि ॥
वाच्यपरिवर्तनं त्वेवम् इत्थं प्रजार्थं महिष्या समं व्रतं धारयतो महनीयकीर्तेः दीनोद्धरणोचितस्य तस्य त्रिगुणैः सप्तभिर्दिनैः व्यतीये । इत्थं सन्तानाय पन्त्या समं व्रतं धारयतः पूजितकीर्तिः दीनरक्षणोचितस्य तस्य नृपस्य एकविंशतिर्दिनानि गतानि, इति सरलार्थः ॥२५॥
अन्येद्युरात्मानुचरस्य भावं जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्तविरूढशष्पं गौरीगुरोर्गह्वरमाविवेश ॥ २६ ॥ अन्येद्युरिति । अन्यस्मिन् दिने इति 'पूर्वापराधरोत्तरान्यान्यतरेतरादेद्युस्' (७२/९७) इति 'श्रीसि० ' सूत्रेणाऽन्यशब्दात् अन्यस्मिन्नह्नि कालेऽर्थे एस्प्रत्यये अन्येद्युः । 'सद्य:परुत्परार्यैषमः परेद्यव्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युर धरेद्युरुभयेद्युरुत्तरेद्युः'[५|३|२२|| ] इति पा०' सूत्रेण च अन्येद्युर्निपातः । अन्येद्युःद्वाविंशे दिने ।
मन्यते जगतस्त्रिकालावस्थामसाविति 'मनिच्- ज्ञाने' इति धातो: 'मनेरुदेतौ चाऽस्य वा' ॥६१२ ॥ इति 'उणादिश्रीसि० ' सूत्रेण 'इ' प्रत्ययेऽकारस्योकारे च मुनिः ज्ञातवान् पुंस्त्रीलिङ्गः: । "अथ मुमुक्षुः श्रमणो यतिः वाचंयमो व्रती साधुरनगार ऋषिर्मुनिः निर्ग्रन्थो भिक्षुः " इति हैर्मः । जैनेतरमते तु - 'मुनित्रयं
१. अभि० चि० प्र० ७५-७६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org