SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ December 2003 ६५ तनोति तनुते वेति तन्धातो: अदि डिति च तद्शब्द: त्रिलि० । "पूर्वोक्ते, बुद्धिस्थे परामर्शयोग्ये, विप्रकृष्टविषये च ब्रह्मणि नपुं०" । "औं तत्सत् इति निर्देशो ब्राह्मणः" इति गीता । तस्य षष्ठ्येकवचने तस्य - दिलीपस्य । 'तृ-प्लवनतरणयोः धातोडिन्प्रत्यये तरन्तीति त्रयो बहुवचनान्तस्त्रिलि० त्रित्वसङ्ख्याविशिष्टे । स्त्रियां तिस्रादेशः, तिस्र इत्यादि । गुण्यते इति गुणः-उपसर्जनम् । “गुणोपसर्जनोपाग्राण्यप्रधाने " इति हैर्म: । गुण्यते अभ्यस्यते इति गुणः- रज्जुः मौर्वी च । " शुल्बं (म्बं) वराटको रज्जुः शुल्वं तन्त्री वही गुणः" इति [ हैमं: ] । "मौर्वी जीवो (वा) गुणो गव्या शिञ्जा बाणासनं द्रुणा [शिञ्जिनी ज्या च]" इति च हैमै: । 'पाणि०' मते तु गुण्धातोरचि घञि वा गुणः । " धनुषो मौर्व्या, धनुराकर्षणदामनि, रज्जुमात्रे । " सगुणोऽपि पूर्णकुम्भो यथा कूपे निमज्जती "त्युद्भटः । शौर्यादिधर्मे, राज्ञां सन्धिविग्रहादिषु, षट्सु साधनेषु । ' षाड्गुण्यमुपयुञ्जते' इति माघः । 'ज्ञानविनयादिषु गुणागुणानुबन्धित्वात्' इति रघुः । साङ्ख्यमते 'पुरुषोपभोगोपकरणभूतत्वात् तद्बन्धनोपयोगित्वाच्च सत्त्वरजस्तमआदिषु पदार्थेषु' । 'प्रकृतेर्गुणसंमूढा सज्यन्ते गुणकर्मसु ' इति गीता । अप्रधाने । न्यायमते रूपादिचतुर्विंशतिभेदभिन्ने पदार्थे । व्याकरणोक्ते 'सत्त्वे निविशतेऽवैति, पृथग्जातिषु दृश्यते' । 'आधेयश्चाऽक्रियाजश्च सोऽसत्त्वप्रकृतिः गुणः ।' इत्युक्ते द्रव्यमात्राश्रिते । द्रव्यभिन्ने उत्पाद्यानुत्पाद्यतासमानाधिकरणे, सिद्धधर्मे वस्तुधर्मे । व्याकरणपरिभाषिते 'अदेङ् गुणः' इत्युक्ते अकारे एकारे ओकारे च । 'गुणोऽरेदोत्' इत्युक्ते अरि एकारे ओकारे च । अलङ्कारोक्तेषु माधुर्यादिषु । आवृत्तौ, तन्तौ, उत्कर्षे, दूर्वायां च । जैनमते सहभाविनि, पर्याये १. अभि० चि० ष० १४४१ । २. अभि० चि० तृ० ९२८ । ३. अभि० चि० तृ० ७७६ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy