________________
अनुसंधान-२६ मुनीनां पञ्च महाव्रतानि । अन्ये चाऽभिग्रहविशेषा अपि व्रतानि गीयन्ते । "व्रतं लक्षणभेदे पुण्यसाधने उपवासादि नियमभेदे च" । अत्र तु जैनेतरमतेन गोसेवारूपो नियमो व्रतम्, तत् व्रतम् ।
धारयतीति चुरादि'धृ'धातोः णिचि शतृप्रत्यये [च] धारयन्, तस्य धारयतः-अनुतिष्ठतः पालयत इत्यर्थः । महितुं योग्येति 'मह-पूजायां' धातोरनीयप्रत्यये महनीया-पूज्या । 'पाणि' मते च अनायरप्रत्यये । कीर्त्यते इति 'साति-हेति-यूति-जूति-ज्ञप्ति-कीर्तिः' (५।३।९४॥) इति 'श्रीसि०' सूत्रेण 'कृतत्-संशब्दने' धातोः भावाकों: क्तिप्रत्ययान्तनिपातने कीर्तिः-यशः । “श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा" इति हैमः । 'पाणि०' मते चुरादि ‘कृत्' धातोः कर्मणि क्तिनि कीर्त्यते इति कीर्ति: यशसि ।
"एक दिग्गामिनी कीर्तिः सर्वदिग्गामुकं यशः" । यद्वा
"दानपुण्यफला कीत्तिः पराक्रमकृतं यशः" इति । यशःकीोरर्थभेदोऽप्यन्यत्र । अत्र तु यशसि । महनीया कीर्तिर्यस्य सः महनीयकीर्तिः, तस्य महनीयकीर्तेः - प्रशस्तयशसः ।
दीयते स्मेति 'सि०'मते दीच्-क्षये, 'पा०' मते तु 'दी-क्षये' इति धातोः कर्तरि क्ते तस्य च नत्वे दीन: त्रिलिङ्गः । “दुःखिते, भीते च, तगरपुष्पे नपुं०, मूषिकायां स्त्री०" । उद्हरणं उद्धरणं वेति उत्-उपसर्गपूर्वात् हृ-धृधातो 'सि०'मते भावेऽनटि, ‘पा० मते च ल्युटि उद्धरणम् । दीनानामुद्धरणम् दीनोद्धरणम् । उच्यते स्मेति उचितः-योग्यः । "न्याय्यं तूचितं युक्तसांप्रते लभ्यं प्राप्तं भजमानाभिनीतौपयिकानि च" इति हैमः । 'वच्-परिभाषणे' धातोः 'उवच्समवाये' धातोर्वा कर्मणि क्ते, 'पाणि०' मते उच्धातोः क्ते वच्धातोः कितच्प्रत्यये वा उचितः त्रिलिङ्गः ।" न्यस्ते, परिचिते, युक्ते" । अत्र तु परिचितार्थः । दीनोद्धरणे उचितः-परिचितः दीनोद्धरणोचितः, तस्य दीनोद्धरणोचितस्य दीनजनरक्षणनिरतस्य ।
१. अभि० चि० द्वि० २७३ । २. अभि० चि० तृ० ७४३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org