SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ December - 2003 ६३ 'श्रीसि०' सूत्रेण इदम्शब्दात् एतच्छब्दाच्च थमि इदादेशे च इत्थम् इति निपात्यते । 'पाणि०' मते तु इदम्शब्दात् थमुप्रत्यये इत्थम् अव्ययम्, “इदम्प्रकारे, अनेन प्रकारेणेत्यर्थे च" । प्रजायते इति प्रपूर्वात् जन्धातोः 'क्वचित्' (५।१।१७१॥) इति 'श्रीसि०' सूत्रेण डप्रत्यये प्रजा । "सन्ततौ, जने च । तोकापत्यप्रसूतयः तुक् प्रजोभयोः" इति । "लोको जनः प्रजा" इति च हैमः। "प्रजा स्यात् सन्ततौ जने" इत्यमरश्चरे । प्रजा एवाऽर्थः प्रयोजनं यस्य तत्, प्रजायै इति वा प्रजार्थम् । मह्यते पूज्यते इति 'मह्यविम्यां हित्' ॥५४७।। इति 'उणादिश्रीसि०' सूत्रेण 'महपूजायां' धातोः टिदिषप्रत्यये महिषः सैरिभः राजा च । ततो ङ्यां महिषी राजपत्नी सैरिभी च । "कृताभिषेका महिषी" इति हैम: । 'नृपस्त्रीत्युत्तरतः सम्बध्यते महादेवीत्वे कृताभिषेका यथा वासवदत्तेति' तद्वृत्ति: । "कृताभिषेका महिषी" इत्यमरः । यद्वा मधातोः टिषचिप्रत्यये ततो ङि(डी)पि महिषी । 'राज्ञः कृताभिषेकायां महिषजातिस्त्रियाम् औषधिभेदे च' । अत्र तु पट्टराज्ञी महिषी, तया महिष्या । __ सम्पूर्वात् 'अम्-गतौ' धातोः, सङ्गतममतीति समम् । "साकं सत्रा समं सार्धममा सह" इति हैमः । 'यथाऽस्मदुपज्ञे व्याश्रयमहाकाव्ये "पुलिनानि सह क्षोमैः सरांसि नभसा समम्" । 'ज्योत्स्न्य(न्या)माहन्यामिषन्मेघाः साकं कैलाशमुनिभिः' इति तद्वत्तौ । यद्वा सम्धातोः समुप्रत्यये समम् अव्ययं, "साहित्ये, एकदेत्यर्थे च" । 'सममेव समाक्रान्तं द्वयम्' इति रघुः । अत्र समं सह। वियते उपवासाद्यत्रेति 'पृषि-रञ्जि-सिकि-का-ला-वृभ्यः कित्' ॥२०८॥ इति 'उणादिश्रीसि०' सूत्रेण 'वृगट-वरणे' इति धातोः किदतप्रत्यये व्रतम् - शास्त्रविहितो नियमः । “नियमः पुण्यकं व्रतम्" इति हैमः । जैनदर्शने देशसर्वादिभेदेन व्रतानामनेकविधत्वम् । देशतः श्रावकाणां द्वादशव्रतानि, सर्वतो ६. अभि० चि० तृ० ८४३ । १. अभि० चि० तृ० ५०१ । २. अम० तृ० नानार्थवर्गे - २३९८ । ३. अभि० चि० तृ० ५२० । ४. अम० द्वि० मनुष्यवर्गे - १०८३ । ५. अभि० चि० १० १५२७ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520526
Book TitleAnusandhan 2003 12 SrNo 26
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2003
Total Pages142
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy