________________
अनुसंधान-२१ (४) ॐ अहँ आत्मन् देहिन् मतिज्ञानावरणेन, श्रुतज्ञानावरणेन, अवधिज्ञानावरणेन, मनःपर्यायज्ञानावरणेन, केवलज्ञानावरणेन, इन्द्रियावरणेन, चित्तावरणेन आवृतोऽसि तन्मुच्यतां तवावरणमनेनाचरणेन अहँ ॐ ॥
(२२-१) (५) ॐ अहँ नवब्रह्मगुप्ती: स्वकरणकारणानुमतीर्धारयेस्तदन्तरमक्षय्यमस्तु ते व्रतं स्वपरतरणतारणसमर्थो भव अहँ ॐ ।। (२२-२)
ॐ अहं ब्रह्मचार्यसि, ब्रह्मचारिवेषोऽसि, अवधिब्रह्मचर्योऽसि, धृतब्रह्मचर्योऽसि, धृताजिनदण्डोऽसि, बुद्धोऽसि, प्रबुद्धोऽसि, धृतसम्यक्त्वोऽसि, दृढसम्यक्त्वोऽसि, पुमानसि, सर्वपूज्योऽसि, तदवधि ब्रह्मव्रतं आगुरुनिर्देशं धारयेः अहँ ॐ ॥ (२३-२)
(७) ॐ अहँ गौरियं, धेनुरियं, प्रशस्यपशुरियं, सर्वोत्तमक्षीरदधिघृतेयं, पवित्रगोमयमूत्रेयं, सुधास्राविणीयं, रसोद्भाविनीयं, पूज्येयं, हृद्येयं, अभिवाद्येयं, तद्दत्तेयं त्वया धेनुः, कृतपुण्यो भव, प्राप्तपुण्यो भव, अक्षय्यं दानमस्तु अर्ह ॐ ॥ (२७-२)
(८) ॐ अहँ एकमस्ति, दशकमस्ति, शतमस्ति, सहस्रमस्ति, अयुतमस्ति, लक्षमस्ति, प्रयुतमस्ति, कोट्यस्ति, कोटिदशकमस्ति, कोटिशतमस्ति, कोटिसहस्रमस्ति, कोट्ययुतमस्ति, कोटिलक्षमस्ति, कोटिप्रयुतमस्ति, कोटाकोटिरस्ति, सङ्घयेयमस्ति, असङ्ख्येयमस्ति, अनन्तमस्ति, अनन्तानन्तमस्ति, दानफलमस्ति तदक्षय्यं दानमस्तु ते अहँ ॐ ।। (२७-२)
(९) ॐ वं वरुणोऽसि, वारुणमसि, गाङ्गमसि, यामुनमसि, गौदावरमसि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org