________________
ऑक्टोबर २००२
(चूडाकरणमन्त्र: )
ॐ अर्हं ध्रुवमायुर्ध्रुवमारोग्यं ध्रुवाः श्रियो ध्रुवं कुलं ध्रुवं यशो ध्रुवं तेजो ध्रुवं कर्म ध्रुवा च कुलसन्ततिरस्तु अर्हं ॐ ॥ (१८-१)
( १ )
उपनयनारंभवेदमन्त्रो यथा
ॐ अर्हं अर्हद्भ्यो नमः, दर्शनाय नमः, चारित्राय नमः, संयमाय नमः, सत्याय नमः, शौचाय नमः, ब्रह्मचर्याय नमः, आकिञ्चन्याय नमः, तपसे नमः, शमाय नमः, मार्दवाय नमः, आर्जवाय नमः, मुक्तये नमः, धर्माय नमः, सङ्घाय नमः, सैद्धांतिकेभ्यो नमः, धर्मोपदेशकेभ्यो नमः, वादिलब्धिभ्यो नम:, अष्टाङ्गनिमित्तज्ञेभ्यो नमः, तपस्विभ्यो नमः, विद्याधरेभ्यो नमः, इहलोकसिद्धेभ्यो नमः, कविभ्यो नमः, लब्धिमद्भ्यो नमः, ब्रह्मचारिभ्यो नमः, निष्परिग्रहेभ्यो नमः, दयालुभ्यो नमः, सत्यवादिभ्यो नमः, निःस्पृहेभ्यो नमः, एतेभ्यो नमस्कृत्यायं प्राणी प्राप्तमनुष्यजन्मा प्रविशति वर्णक्रमं अर्ह ॐ ॥ (२१-१)
४९
( २ )
ॐ नमो भगवते, चन्द्रप्रभजिनेन्द्राय शशाङ्कहारगोक्षीरधवलाय, अनन्तगुणाय निर्मलगुणाय भव्यजनप्रबोधाय, अष्टकर्ममूलप्रकृतिसंशोधनाय, केवलालोकविलोकितसकललोकाय, जन्मजरामरणविनाशकाय, सुमङ्गलाय, कृतमङ्गलाय, प्रसीद भगवन् इह चन्दननामामृताश्रवणं कुरु कुरु स्वाहा || (२१-२)
,
Jain Education International
( ३ )
ॐ अर्हं आत्मन् देहिन् ज्ञानावरणेन बद्धोऽसि, दर्शनावरणेन बद्धोऽसि, वेदनीयेन बद्धोऽसि, मोहनीयेन बद्धोऽसि, आयुषा बद्धोऽसि नाम्ना बद्धोऽसि, गोत्रेण बद्धोऽसि, अन्तरायेण बद्धोऽसि कर्माष्टकप्रकृतिस्थितिरसप्रदेशैर्बद्धोऽसि, तन्मोचयति त्वां भगवतोऽर्हतः प्रवचनचेतना, तद् बुध्यस्व मा मुहः, मुच्यतां तव कर्मबन्धमनेन मेखलावन्धेन अहं ॐ ॥ (२१-२)
,
For Private & Personal Use Only
www.jainelibrary.org