________________
अनुसंधान - २१
विजयं कुरु भद्रं कुरु, प्रमोदं कुरु, श्री शशाङ्काय नमः अर्ह ॐ ॥
2
(११-२)
४८
यथा वेदमन्त्रः
( क्षीराशनमन्त्रः )
ॐ अहं जीवोऽसि, आत्माऽसि पुरुषोऽसि, शब्दज्ञोऽसि, रूपज्ञोऽसि, रसज्ञोऽसि, गन्धज्ञोऽसि, स्पर्शज्ञोऽसि, सदाहारोऽसि कृताहारोऽसि, अभ्यस्ताहारोऽसि, कावलिकाहारोऽसि, लोमाहारोऽसि, औदारिकशरीरोऽसि, अनेनाहारेण तवाङ्गं वर्धतां, बलं वर्द्धतां, तेजो वर्द्धतां, पाटवं वर्द्धतां, सौष्ठवं वर्द्धतां पूर्णायुर्भव, अर्हं ॐ ॥ (१२-१)
9
)
(षष्ठीसंस्कारमन्त्रः )
ॐ अर्हं जीवोऽसि, अनादिरसि, अनादिकर्मभागसि, यत्त्वया पूर्वं प्रकृतिस्थितिरसप्रदेशैराश्रववृत्त्या कर्म बद्धं तद्बन्धोदयोदीरणासत्ताभिः प्रतिभुङ्क्ष्व, मा शुभकर्मोदयफलभुक्तेरुच्छेकं दध्याः, न चाशुभकर्मफलभुक्त्या विषादमाचरे:, तवास्तु संवरवृत्त्या कर्मनिर्जरा अर्हं ॐ ॥ (१३-२)
"
( अन्नप्राशनसंस्कारमन्त्रः )
ॐ अर्ह भगवान्नर्हन् त्रिलोकनाथस्त्रिलोकपूजितः सुधाधाराधारितशरीरोऽपि कावलिकाहारमाहारितवान् पश्यन्नपि पारणाविधाविक्षुरसपरमान्नभोजनात्परमानन्ददायकं बलम् । तद्देहिनौदारिकशरीरमाप्तस्त्वमप्याहारय आहारं तत्ते दीर्घमायुरारोग्यमस्तु अर्हं ॐ।। (१६-२)
(कर्णवेधसंस्कारमन्त्रः )
ॐ अर्हं श्रुतेनाङ्गैरुपायैः कालिकैरुत्कालिकैः पूर्वगतैश्चलिकाभिः परिकर्मभिः सूत्रैः पूर्वानुयोगैः छन्दोभिर्लक्षणैर्निरुक्तैर्धर्मशास्त्रैविद्धकर्णौ भूयात् अर्हं ॐ ॥
शूद्रादेस्तु
Jain Education International
ॐ अर्हं तव श्रुतिद्वयं हृदयं धर्माविद्धमस्तु ॥ ( १७-२)
For Private & Personal Use Only
www.jainelibrary.org