SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२१. प्रशस्तकमलादिचित्रोपलक्षितः रुचिरेणोपशोभितः प्रशस्तस्तु नूतनकपाटयुक्ते रम्योन्नतगवाक्षलक्ष्ये ईदृशे गृहेऽहं वसामि' । एषो(ष) षष्ठो(?) नैगमनयः सप्तम(?)नैगमाच्छुद्धः । इति नैगमः ॥१॥ नैगम-व्यवहारयोर्वचनं(न)साम्यं न. भिन्नत्वम् ।२। अथ संग्रहनय उच्यते । यदा स पुरुष आसनादौ उपविष्टो भवेत् तदैव तत्र वसतीति मन्यते संग्रहनयो, नान्यथा । चलनादिक्रियायुक्तो नरो न तत्र वसतीति मन्यते संग्रहः । इत्थं सर्वत्र विचार्य, इति संग्रहः ३।। ___ अथ ऋजुनयः । आसेन (आसने) आकाशप्रदेशा बहु(बहवः) सन्ति, न तत्र वसति सर्वत्र । किन्तु यावत आकाशप्रदेशान् अवरुध्योपवे(वि)ष्टो नरः स तत्रैव वसति नान्यत्र, वर्तमानसमये वसति नान्यस्मिन् समये । एवं सर्वत्र ज्ञेयम् ४॥ अथ शब्दादिनयत्रयं कथयति-'सर्वं वस्तु स्वात्मन्येव वर्तते, न त्वात्मव्यतिरिक्तेऽधिकरणे' इति वचनात् सर्वोऽपि पुरुषार्थपदार्थे स्वस्वरूपे स्वस्वभावे वसति, न तु परस्वभावे आकाशप्रदेशे । इति वसतिदृष्टान्तः । अथ प्रदेशदृष्टान्ते सप्तनयान् अवतारयति । क्वचिद् विद्वज्जनमण्डल्यां प्रदेशप्रवृत्तौ जायमानायां सत्यां केनापि पृष्टं 'कस्य प्रदेशः ?' । तदैक: कश्चित् पण्डितो नैगमनयमवलम्ब्य वक्तीदं- धर्मास्तिकाय १ अधर्मास्तिकायर आकाशास्तिकाय३ जीवास्तिकाय४ पुद्गलास्तिकाय ५ देशः ६ । सकलद्रव्यस्य कल्पनया विवक्षित: कियान् अंशो भागो देश: उच्यते । एतेषां पूर्वोक्तानां षण्णां प्रदेशः इत्य(ति व?)वक्तव्यं नैगमवचने । अथ संग्रहो वक्ति- अरे नैगम ! मैवं वद । षण्णां प्रदेशो न किन्तु पञ्चानाम् । धर्मास्तिकायादीनां प्रदेशोऽस्ति, न तु देशस्य प्रदेशः । द्रव्यस्य एकांशो देशः, न तु द्रव्याद् भिन्नो देश इति ।२ ___ अथ व्यवहारनयो ब्रूते - अरे संग्रह ! मेत्थं ब्रूहि पञ्चानां धर्मास्तिकाया दीनां प्रदेशः । पञ्चानां तदोच्यते यदा पञ्चानां साधारणो भवति पञ्चभ्रातृनिधानवत् । इत्थं वद-पञ्चविध: प्रदेशः, धर्मास्तिकायादीनां पञ्चविधत्वात् इति ।३ अथ ऋजुसूत्रनयो वक्ति- अरे व्यवहार ! मैवं भण यत् पञ्चविधः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy