SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ऑक्टोबर २००२ प्रदेश: । प्रदेशस्तु पञ्चास्तिकायविषयेऽस्ति । प्रदेशे प्रदेशे यदि पञ्चविधत्वमुच्यते तदा पञ्चविंशतिप्रदेशाः स्युः । अतो भाज्यप्रदेशान् वद एकस्मिन् प्रदेशे पञ्च विकल्पाः सन्ति अयं धर्मास्तिकायप्रदेश: १ किंवा अधर्मास्तिकायप्रदेश: २ किंवा आकाशास्तिकायप्रदेश: ३ उत जीवास्तिकायप्रदेश: ४ किंवा पुद्गलास्तिकायप्रदेश: ५, एवं पञ्च विकल्पान् ऋजुसूयनयो वक्ति । ४ अथ शब्दनयो वक्ति हे ऋजुन ! त्वं भाज्यप्रदेशं मा वद । एवं उच्यमाने एकस्मिन् प्रदेशे पञ्चानामपि धर्मास्तिकायादीनां भजना भविष्यति, पञ्चपुरुषसेवकवत् । कदाचिदधर्मास्तिकायस्य प्रदेशो भवति, एवं पञ्चानामपि भजना स्यात् प्रदेशस्य । अत एवं वद धर्मप्रदेशः १, अधर्मप्रदेशः २, आकाशप्रदेशः ३, जीवप्रदेश: ४, पुद्गलप्रदेश: ५, एतेषां पञ्चानां मध्ये एकतमस्य प्रदेश इति ॥५ अथ समभिरूढनयो वक्ति - धर्मप्रदेश इत्येवमुच्यमाने समासद्वयातिव्याप्तिर्भवति तत्पुरुषः कर्मधारयश्च । तत्पुरुषे क्रियमाणे धर्मे प्रदेशः, अत्र धर्म-प्रदेशयोर्नैक्यं, धर्मात् प्रदेशो भिन्नः प्रदेशाद्धर्मो भिन्नः, 'भेदे तत्पुरुष ' इति वचनात् । अतोऽत्र कर्मधारयः कर्तव्यः । धर्मश्चासौ प्रदेशश्च धर्मप्रदेश: । अस्मिन् समासे धर्मद्रव्य-प्रदेशयोरैक्यं, न भिन्नत्वं, 'अभेदे कर्मधारय ' इति वचनात् ।६ - } अथैवम्भूतनयो वक्ति- हे समभिरूढनय ! त्वं धर्मास्तिकायादिषु देश-प्रदेशौ कल्पनया मन्यसे तदुक्तं (तदयुक्तं ?) यत: देशप्रदेशौ धर्मास्तिकाया दिस्कन्धादभिन्नौ, देश-प्रदेश- स्कन्धानामैक्यमेव कल्पनया, भिन्नत्वमस्ति तर्हि कल्पनया किं प्रयोजनं ? । समस्तस्कन्धरूपो धर्मास्तिकायः स एव धर्मास्तिकाय उच्यते, न तु देश-प्रदेशौ । एवं सर्वत्राऽधर्मास्तिकायादिषु ज्ञेयम् । इत्येवम्भूतनयवचनम् ॥७ इति प्रदेशदृष्टान्तः ॥ सप्तनयज्ञो जिनोक्तसिद्धान्ताधिकारी, नान्यः ॥ नयानां किल सप्तानामर्था दृष्टान्तपूर्वका: । लिखिता: संस्कृतरूपेण स्वात्मनः परहेतवे ॥ एते सप्त नया मिथ्यादृष्टिभिर्न मन्यते (न्ते) ॥ इति सप्तनयविवरणं चूर्णं विहितम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy