SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ ऑक्टोबर २००२ केवलं निष्पन्नकार्यमेव मन्यते । नैगम-व्यवहारौ अविशुद्धौ, तदपेक्षया संग्रहनयः शुद्धः । इति संग्रहनयः ।३ अथ ऋजुनयवचनं यथा - केवलं धान्यमापहेतुभूतं मानविशेष: स एव प्रस्थको नान्यः । ऋजुनयो वर्तमानसमयग्राही, अतः संग्रहनयात् शुद्धः । संग्रहस्तु प्रस्थकमेयधान्यपुञ्ज-धान्यभृतप्रस्थक इत्यादिसमुदायस्य प्रस्थक:(कं) कथयति । एते शब्दादित्रयो नयाः शब्दस्य प्राधान्यं मन्यन्ते ते(?)न त्वर्थस्य, अत एते [शब्द] नयाः । यत्र शब्दव्यवस्था तत्रैवार्थो वाच्यः । तर्हि प्रस्थकस्यावस्था प्रस्थकस्य ज्ञानोपयोगवति पुरुषे स्थिताऽस्थिता तर्हि स पुरुष एव प्रस्थको नान्यः । यो • यादृशे यादृशे उपयोगे प्राणी वर्तते स तदुपयोगवान् कथ्यते । यथा रागोपयोगे वर्तते इति रो(रा)गी, द्वेषोपयोगे वर्तते इति द्वेषी । तथा प्रस्थकस्योपयोगो यस्मिन् स नरः प्रस्थक उच्यते, 'प्रस्थकोपयोगयुक्तः प्रस्थक' इति श्रीहेमचन्द्राचार्याः । शब्दादिभिस्त्रिभिर्नयैः प्रस्थकोपयोगी नर एव प्रस्थको मन्यते, न त्वनुपयोगी । काष्टभाजनस्य प्रस्थकस्य यद् ज्ञानं तत् पुरुषे एवास्ति, न तु काष्टे, अचेतनत्वात् । इति प्रस्थकदृष्टान्ते सप्तनयभावना ।। अथ वसतिदृष्टान्ते सप्त नयान् दर्शयति । त(य) था- केनापि वैदेशिकपुरुषेण पाटलिपुत्रवास्तव्यनरः पृष्टः 'त्वं क्व वससि ?' । तेनोक्तं 'लोकमध्ये' । अय-(इद) मविशुद्धनैगमवचनम् । 'लोकस्तु चतुर्दशरज्जुप्रमाणो न ज्ञायते, त्वं क्व वससि ?' । तदा तेनोक्तं 'तिर्यग्लोके वसामि' । प्रथमवचनात् किञ्चिद् विशुद्धमिदं लोकद्वयपरित्यागात् । पुनः पृष्टं 'तिर्यग्लोके व वससि ?' । तेनोक्तं 'जम्बूद्वीपे' । पूर्ववचनापेक्षयेदं शुद्धम् । पुनः पृष्टं 'क्व वससि ?' । 'भरतेक्षेत्रे' । पूर्वोक्तादिदं शुद्धम् । पुनः पृष्टं 'क्क वससि ?' । 'मगधदेशे' । चतुर्थात् पञ्चमः शुद्धः, चतुर्थमध्ये द्वात्रिंशत्सहस्रदेशावभासनास्ति, पञ्चमे एक एव देशो मगध इति भासति(ते) नान्यः । पुनः पृष्टं 'क्व वससि ?' । तेनोक्तं 'पाटलिपुत्रनाम्नि नगरे' । पञ्चमादयं षष्ठः शुद्धः । मगधदेशस्थसकलग्रामपरित्यागात् । पुनरुक्तं- 'पाटलिपुत्रे वससि, परं क्व वससि ?' । तेनोक्तं 'देवदत्तस्य पाटके' । षष्ठात् सप्तम: शुद्धः, सकलपाटकभ्रान्तेरभावात् । पुनरुक्तं 'देवदत्तस्य पाटके वससि, परं कीदृशे गृहे ?' । तेनोक्तं 'पूर्वाभिमुख Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy