SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२१ एतेषां सप्तनयानां मध्ये आद्याश्चत्वारो नया अर्थप्रधानत्वादर्थनयाः । अग्रेतनास्त्रयो नयाः शब्दप्रधानत्वात् शब्दनयाः । आद्यास्त्रयो द्रव्यास्तिकनयाः न तु पर्यायान् मन्यन्ते, शेषाश्चत्वारः पर्यायास्तिकनयाः पर्यायान् मन्यन्ते, न तु द्रव्यम् । एतेषां सप्तानां नयानां मध्ये एकं नयं यो मन्यते स दुर्णयवादी । सर्वान् नयान् मन्यते स सुनयवादी । सप्तनय-पञ्चसमवायान् मन्यते स स्याद्वादवादी । य एकान्तवादी न स जैनमती । बौद्ध १ नैयायिक २ सांख्य ३ मीमांसक ४ चार्वाकाः ५ । पञ्चैते एकान्तवादिनः ॥ बौद्धाः क्षणिकवादिनः १। नैयायिकाः कर्तृवादिनः २ । सांख्याः प्रकृतिवादिनः ३ । मीमांसकाः कर्मवादिनः ४। चार्वाका नास्तिकवादिनः५ । एषां भेदा भूयांसः सन्ति । इत्येवंभूतनयः ॥ अथ सप्तनयाः (यान्) प्रस्थक १ वसति २ प्रदेशादिदृष्टान्तत्रयेण कथयति । तत्र प्रस्थकदृष्टान्तेन सप्त नयान्] विवृणोति । प्रस्थको मानविशेष: मगधदेशे प्रसिद्धः । कश्चित् सूत्रधारः प्रस्थककाष्ठच्छे(ष्ठं छे)त्तुं याति । केनापि 'क्व यासि ?', तदाऽशुद्धनैगमनयीभूत्वा तेनोक्तं 'प्रस्थकं छेत्तुं यामि' । अत्र बहवो गमा भासन्ते । तावत् काष्टमपि न च्छेदितमस्ति तर्हि व प्रस्थकः? | प्रस्थकस्यान्तराले भूयांसो व्यवसाया भविष्यन्ति तदनु प्रस्थको भविष्यति । तथापि कारणे कार्योपचारः । स्यादेव काष्टं कारणं, प्रस्थकः कार्य, 'भाविनि भूतोपचार' इति नैगमवचनम् । सूत्रधारे काष्टे छेत्तुं प्रवृत्ते सति केनापि पृष्टं 'किं करोषि ?' । स प्राह-'प्रस्थकं छिनद्मि' । पूर्व गमवचनापेक्षया किञ्चिदिदं शुद्धम् । शस्त्रेण घटित्वा काष्टं प्रस्थाकारं कृतं तदा केनापि पृष्टं 'त्वं किं करोषि ?' । तेनोक्तं 'प्रस्थं करोमि' । पूर्वोक्तवचनादिदं शुद्धवचनम् । पूर्ववचनादुत्तरोत्तरवचनं शुद्धं, यावत् प्रस्थको न भवति तावत् सर्वाण्यपि वचनानि नैगमनयस्य ज्ञातव्यानि । व्यवहारनय-नैगमनययोः साम्यं वचनैरिति । अथ संग्रहनयवचनं यथा- स प्रस्थकः परिपूर्णो निष्पन्नः कण्ठपर्यन्तं धान्यभूतो धान्यविभजनं करोति तदा प्रतिप्रस्थकं कथयति संग्रहनयः । नान्यथा । नैगम-व्यवहारनयौ कारणे कार्यं मन्येते, संग्रहनयस्तु कारणे कार्य न मन्यते. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520521
Book TitleAnusandhan 2002 09 SrNo 21
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages74
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy