SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २० तदनन्तरमेव तद् विवक्षितं कार्यं भवति । तथा च तत्कृतं कार्यस्याऽपि तत्स्वाभाव्यमिति चेत् । पादेरपि तत्स्वाभाव्यं कथमेवं न भवेत्तस्याऽपि तदनन्तरमेव भवनात् । I 93 ननु विवक्षितमेव तदुत्तरघटक्षणलक्षणं कार्यं विवक्षित घटक्षणलक्षणकारणानुकारं, न त्वन्यत् पटादिक्षणलक्षणं कार्यम् । तेन तदेव तस्य कार्यं नेतरदिति चेत् । न । पटादेरप्येवं तत्कार्यत्वापातात् वस्तुत्वादिना तस्याऽपि तत्प्राचीनघटानुकारित्वात् । अपि च तद्धर्मानुगमविरहे कार्यस्य कथं तदनुरूपत्वं भवेत् ? । घटादेरपि वा कुतो न भवेत् ? । प्रमाणाभावस्योभयत्राऽपि सत्त्वात् । कारणधर्मानुगमाभावाविशेषेऽपि चेदमेवाऽस्य कार्यं नाऽन्यदित्यत्र न कोशपानं विना मानमस्ति । इति कथं त्वदुक्तं विना वल्लभं कोऽप्यङ्गीकुर्यात् ? । किञ्चेदं कारणमपेक्ष्य इदं कार्यं जायत इत्यत्र न किञ्चिन्मानम् । कारणक्षणवर्तिनो ज्ञानस्य तदैव विनष्टत्वेन कार्यग्रहणासमर्थत्वात्, कार्यक्षणवर्तिनश्च ज्ञानस्य कार्यग्रहण एव सामर्थ्यात् कारणस्य नष्टत्वेन तद्ग्रहणानुपपत्तेः । अपि च भवन्मते कार्यकारणभावः कदाचिदनुपलम्भपुरःसरेण प्रत्यक्षेणाऽवगम्यते । यदुवाच धर्मकीर्तिः "येषामुपलम्भे तल्लक्षणमनुपलब्धं सत् उपलभ्यत इति तल्लक्षणम्" इति उपलब्धिलक्षणप्राप्तम् । एतेन चोपलब्धिलक्षणप्राप्तानुपलम्भेन तस्मिन् देशे तस्य धूमादिकार्यस्य स्वहेतोः सन्निधानात् प्रागपि सत्त्वम् । तथा तस्य कार्यस्य सत एवाऽन्यतो देशादागमनं प्रागवस्थितकटकुड्यादिहेतुकत्वं चाऽपाकृतमवसेयम् । तथा कदाचित् प्रत्यक्षपुर: सरेणाऽनुपलम्भेन गृह्यते । यत उक्तम्- "तत्रैकाभावेऽपि नोपलभ्यते तत् तस्य कार्य" मिति । तच्च कथं संगच्छते ? । कार्यकारणप्रत्यक्षादीनां क्षणिकत्वेन परस्परवार्तानभिज्ञानात् । अथ कारणं वह्नयादि धूमादिजननस्वभावमिति तथास्वभावतयैव तद् गृह्यते प्रत्यक्षेण, नाऽन्यथा । कार्यमपि च धूमादि वह्नयाद्दिकारणजन्यस्वभावमिति दृष्टं सत् तत् तथैव गृह्वते, नाऽन्यथा । तेन तदग्रहणप्रसङ्गात् । तत्सामर्थ्यप्रभवश्च विकल्पोऽपि तथैव प्रवर्त्तत इति युक्तः प्रत्यक्षानुपलम्भादिना कार्यकारणभावावसाय: । भवति हि धूमजननस्वभावानलग्राहकं विज्ञानमनलजन्यस्वभाव धूमविज्ञानं प्रति कारणम् । अन्यथाऽनलग्राहकेन विज्ञानेनाऽनलस्य धूमजननस्वभावतैव न Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy