________________
92
July-2002
इति । मैवम् । अनादिपक्षोऽपि विशेषभावस्येष्यमाण उपकार्योपकारकाणां युगपद्भावित्वमयुगपद्भावित्वं वाऽन्तरेण न भवति । तत्र चोक्तो दोष इति ।
अथोपादानक्षणस्य स्वहेतुत एष एव स्वभाव उत्पेदे यदकिञ्चित्करमपि सहकारिकारणं प्राप्य उपादेयक्षणे विवक्षितविशिष्टकार्यजननसमर्थं विशेषं करोति । ततो घटत एव वैशिष्ट्यमिति चेत् । न । मानमन्तरेण स्वभावः कल्प्यमानो वस्तुव्यवस्थानिबन्धनं न भवति, अनिष्टस्याऽपि भावान्तरस्य कल्पनापातात् । अपि च विवक्षितफलोपादानोपादानस्याऽस्थानपक्षपातोऽयं यत् स्वकार्य विशिष्टस्वफलसाधनप्रवृत्तमत्यन्तानुपकारिणः सहकारिणोऽपेक्षायां नियुक्तमिति । एवं च सहकारिकृतस्य विशेषस्य सर्वथाऽनुपपद्यमानत्वेन विशिष्टं कारणं न संगच्छत एव ।
किञ्च विवक्षितघटक्षणादनन्तरं तदुत्तरक्षणवत् अविशेषेण सकल लोकभाविनां पटादिक्षणानां भावे सति कुतोऽयं नियमो निश्चीयते यदस्य विवक्षितघटक्षणस्येदमेव विवक्षिततदुत्तरघटक्षणलक्षणं कार्यं न त्वन्यदिति ? |
__ अथाऽस्ति विवक्षितं कारणं विवक्षितफलजननस्वभावं नाऽन्यत् । कार्यमपि च तदेव विवक्षिततत्कारणजन्यस्वभावं नेतरत्, स्वभावसामर्थ्याद्, अतो निश्चीयते नियम इति चेत् । न । कारणत्वेनाऽभिमतस्य घटक्षणस्य पटादिक्षण इव तदुत्तरघटक्षणेऽपि अनुगमविशेषसम्पादनारहितस्य न विवक्षितफलजननस्वभाव: स्तोकश्रद्धाया विषयः, सर्वथा कारणगतधर्मानुगमविशेषाभावाविशेषात् । नैवाऽसौ स्वभावः परिकल्प्यमानः कथंचिदप्युपपद्यते । असति च कारणान्तरकृतकार्य इव विवक्षितेऽपि कार्ये तद्रूपरसगन्धशक्तिपरिणामानुगमादिरूपेण प्रकारेणोपकारे कथं कार्यमपि विवक्षितं तत्तत्कारणजन्यस्वभावं ? । कार्यान्तरवत् उपकारभावाविशेषात् ।
अथ विवक्षितघटक्षणस्य विवक्षितकार्यमेवोपकारो न त्वनुगमरूप इति ब्रूषे तर्हि पटादिकमुपकारः कुतो न भवेत्, विशेषाभावात् ?। विवक्षितकारणजन्यस्वभावत्वाभावात् पटादे!पकारत्वमिति चेद । विवक्षितकार्यस्य विवक्षितकारणोपकारत्वे प्रयोजकं विवक्षितकारणजन्यस्वभावत्वं, तच्च किंकृतमिति वाच्यम् । किमत्र प्रष्टव्यं ?, हेतुस्वभावकृतमेव तत् इति चेत् । कस्तस्य हेतोः स्वभावो यद्बलात् कार्यस्य तत्स्वाभाव्यमुपजायते ? । नन्वयमेव स्वभावो यत् तत्कार्यं तदनन्तरमेव भवति । हेतोः स्वहेतुशक्तितस्तादृश एव स्वभाव उत्पेदे येन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org