SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ 94 July 2002 गृहीता स्यात् । ततश्चेत इदं भवतीति प्रत्यक्षत एव सिद्धे सति नाऽन्यदाऽन्यत्राऽभ्यस्मादपि शक्रमूर्धादेर्धूमादि कार्यं भविष्यतीत्येवाऽसिद्धिः कार्यकारणभावस्याऽऽशङ्कनीया । प्रतिनियतादेव कुतश्चिदग्न्यादेः प्रतिनियतस्य धूमादेरुत्पत्तेः । अन्यथा धूमाद्यहेतुकमेव स्यात् । तथाहि यद् यदन्वयव्यतिरेकानुविधायि तत् तद्धेतुकम् । अन्यदा(था) चेदन्यस्मादपि धूमादि कार्यं भवेत् तर्हि न तद् अग्न्यादिव्यतिरेकानुविधायि स्यात् । तथा च न तस्याऽग्न्यादिर्हेतुः स्यात् । अग्न्यादेश्च भवतो धूमादिकार्यस्य न घटादिव्यतिरेकानुविधायित्वमिति न तदपि तस्य हेतुर्भवेत् । एवं चोभयस्याऽपि तद्धेतुत्वाभावात् धूमादिकमहेतुकमेव प्राप्नोति, अहेतुकत्वाच्च सदा भावादिप्रसङ्गः । इति यद् यत एकदा भवद् दृष्टं तत् सर्वदा तत एव नेतरस्माद्- इति किमत्र न युक्तम् ? इति चेत् । न । कारणधर्मानुगमाभावाविशेषात् सर्वस्य सर्वकार्यत्वप्रसङ्गात् । अथ स्वभाव एवाऽतिप्रसङ्गदोषप्रतिषेधं करोतीति चे [त्]...... Jain Education International -X- For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy