SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ 87 अनुसंधान-२० ____ अथ न पूर्वापरक्षणप्रवाहमानं सन्तानो नाऽपि तद्व्यतिरिक्तः कश्चिद् वस्त्वन्तरभूतः, किन्तु य एवेह पूर्वोत्तरक्षणानामुपादानोपादेयभावः स एव सन्तानस्ततश्च सर्वोऽप्यनन्तरोदितो व्यवहार इत्यदोष इति चेत् । न । विवक्षितैकतमकारणक्षणाद् यथा सन्तानान्तरवर्ती क्षणो भिन्नस्तथा कार्यक्षणोऽपि भिन्न एव, सर्वथा कार्ये कारणधर्मानुगमाभावात् । ततो यथा देवदत्तजिनदत्तयोरत्यन्तं भिन्नत्वादेककर्तृकः स्मरणादिको व्यवहारो न सङ्गतिमश्नुते तथा विवक्षितेष्वपि पूर्वोत्तरक्षणेषु । नहि भिन्नसन्तानान्तरवर्तिनः क्षणादस्य कार्यक्षणस्य कश्चिद् विरोधो यन्निबन्धनोऽत्र सर्वोऽपि पूर्वोक्तो व्यवहार: प्रवर्तेत, नेतरत्रेति स्यात् । न च भिन्नसन्तानान्तरवतिनः क्षणात् कार्यक्षणस्याऽस्त्येव वैशिष्ट्यं, कार्यकारणभावात् । न हि यथैकसन्तानवर्तिप्रथमक्षणस्य यथा स्वोत्तरक्षणस्तस्य कार्यं, स्वयं च तस्य कारणं, तथा भिन्नसन्तानान्तरवर्ती स्वोत्तरक्षणोऽपीति वाच्यम् । एकान्तक्षणिकपक्षे कार्यकारणभावस्याऽसिद्धेः क्षणिकं हि कार्यत्वाभिमतं वस्तु पूर्वक्षण एव निरन्वयनष्टं सत् कथमुत्तरक्षणे(णं) जनयेत् ?। नाभावाद् भावोत्पत्तिः, पूर्वकारणक्षणात् पूर्वमेव कार्योत्पत्तिप्रसङ्गात् । तदभावस्य प्रागपि विद्यमानत्वात् । ___अथ कारणप्रध्वंसाभावादेव कार्यं न तु तत्प्रागभावादपीति नोक्तदोष इति चेत् । न । अभावस्य सर्वोपाख्याविकलत्वेन विशेषाभावादेवं व्यवस्थानुपपत्तेः । न हि केन[चि]दपि विशेषणेन विशेषयितुं शक्योऽभावः, खरविषाणवत् सकलशक्तिशून्यत्वेन कर्मत्वशक्त्ययोगात् । अथ कारणादेव कार्य, तदाऽन्वयसिद्धिप्रसङ्गः, कारणभावाविच्छेदेन कार्यस्य भावाभ्युपगमात्, भावाविच्छेदस्यवाऽन्वयत्वात् । __नन्वन्य एव कारणभावोऽन्यश्च कार्यभावस्तत्कथमिह भावाविच्छेदेऽपि अन्वयापत्तिरिति चेत् । न । तत्त्वतो भेदकाभावेन एकान्तेनाऽन्यत्वाभावात् । क्षणयोर्हि पूर्वापरयोस्तद्भेदकत्वं स्यात् । न च तयोविवक्षितपूर्वापरभावयोरन्यत्वम्, अक्षणिकत्वप्रसङ्गात् । तदपरक्षणभावेऽनवस्थापातात् । अनवस्थाप्रसङ्गाभावेऽपि न तयोः क्षणयोर्भेदकत्वमेव, उभयोरपि भावयोर्भावरूपताया अविशेषात् । आकारादिभेदाद् विशेषसिद्धिरिति चेत् । न । आकारादिभेदवत् अविशेषेण भावरूपताया अपि प्रतीयमानत्वात् । न चाऽ(नन्व)धिकृतघटजन्यकपालवत् घटान्तरजन्यकपालेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy