________________
86
July-2002
एवेदानीं करोति पुण्यं वा पापं, स एवाऽऽगामिभवे तत्फलं भोक्ष्यति । य एव भवविरक्तः, स एवाऽयं संयमरतो दृश्यते । यौवनावस्थापन्नोऽपि स एवाऽयं मदीयः पुत्रः अहमेव चाऽस्य पिताऽपीति । य एवाऽसौ संसारी स एव वैराग्यादिवशान्मुक्त इति । येनैव प्राग् घटादिकमनुभूतं स एव स्मरति न त्वन्यः, अननुभूतस्य स्मरणायोगादित्यादिः । स चैकान्तक्षणिकत्वे आत्मनः कथं स्यात् ? शुभाशुभकर्तुस्तदानीमेव नष्टत्वेन तत्फलभोक्तुरन्यत्वात् ।
चेत् कोऽस्त्ययं य एतादृशं वचनमवादीत् ?। अहमस्मि बुद्धशिष्य इति चेत् । वाक्योच्चारणक्षणमात्रवृत्तितया क्षणिकस्त्वं कथमद्याप्यसि ? असि चेत् कथं क्षणिकः ? । तत्क्षणनाशेऽपि तव सम्प्रति विद्यमानत्वात् । अथाऽहं नाऽस्मि, किन्त्वन्य एवाऽयं वदति-इति चेत् । तहि असन् त्वं कथं वदसि 'अहं नाऽस्मि किन्त्वन्य एवाऽयं वदति' इति ? । नासत् शशशृङ्ग कदाचिदप्यहं नाऽस्मीति वदति, अविद्यमानस्याऽर्थक्रियाकारित्वाभावात् । कथं वा नष्टेन त्वयाऽन्योऽयं वदतीति निश्चीयते ? अन्याऽस्तित्वक्षणे तव सर्वथाऽप्यभावात् । तस्मादस्येव त्वमिदानीमपीति कथमात्मा क्षणिक: स्यात् ? ।
किञ्चैवं बाल्यावस्थानुभूतपांशुक्रीडादिस्मरणं वृद्धस्य न स्यात्, क्रीडानुभवितुर्बालात्मनस्तत्क्षण एव नष्टत्वात् । इदानीन्तनवृद्धात्मनस्तदानीमभावेन क्रीडानुभवितृत्वाभावात् । न चाऽननुभूतस्याऽपि स्मरणं संगच्छते, तव मदनुभूतस्य विद्यानगरादिनिवासस्य स्मरणापत्तेः ।
अथ भूत-भवद्-भविष्यत्क्षणप्रवाहरूपारूपात् (प्रवाहरूपात्) सन्तानात् सर्वोऽपि स्मरणादिको व्यवहार उपपद्यते । तदुक्तम्
यस्मिन्नेव हि सन्ताने आहिता कर्मवासना ।।
फलं तत्रैव सन्धत्ते कसे रक्तता यथा ॥ इति ॥ इति चेत् । न । स सन्तानः सन्तानिभ्योऽन्यो वा स्यात् ? अनन्यो वा ? यद्यन्यस्तहि किं नित्यो वा स्यात् ? क्षणिको वा ? । आद्ये "क्षणिकाः सर्वसंस्कारा" इति प्रतिज्ञाव्याघातः । द्वितीये कथं स्मरणादिको व्यवहार उपपद्यते ? सन्तानस्य तत्क्षण एव नष्टत्वात् । अथ सन्तानिभ्योऽनन्य एव सन्तानस्तर्हि सन्तानिन एव, न कश्चित् सन्तानः, तदव्यतिरिक्तत्वात्, तत्स्वरूपवत्। तथा च तदवस्थ एव पूर्ववत् व्यवहारविलोपप्रसङ्गः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org