________________
अनुसंधान-२०
उपाधिसम्बन्धात् । स्फुटिकोऽपि यथोपाधिरूपः । तदुक्तम्पुरुषोऽविकृतात्मैव स्वनिर्भासमचेतनम् ।
मनः करोति सान्निध्यादुपाधिः स्फुटिकं यथा ॥ इति । चिद्रूपं च तत् [आ] लोचनायां प्रवर्तते इति । तदप्यसमीचीनं । पुरुषस्यैकस्वभावत्वेनेत्थं सदा प्रयोजकत्वापत्तेः । तथा च सति सदैव तद्रूपत्वान्मुक्त्यभावप्रसङ्गः ।
एतेन यथा चन्द्रः स्वभावेनाऽविकृतात्मा एव सन् चन्द्रोपलस्य पय:क्षरणे कदाचित् प्रयोजकः कदाचिन्न, तथाऽयमप्यात्मा कदाचिदेव प्रयोजको भविष्यति न तु सदेति निरस्तम् । चन्द्रस्याऽपि नित्यानित्यतया सर्वदैवाऽविकृतस्वभावत्वाभावात् । अन्यथा तस्याऽपि सदा प्रयोजकत्वापत्तेरिति । तस्मादात्मन एव बन्धमोक्षौ अभ्युपगन्तव्यौ । तथा च तस्य तदन्यथानुपपत्त्या परिणामित्वमेवेति स्थितम् ।
अन्यस्याऽपि एकान्तनित्यत्वेन कथं बन्ध - मोक्षौ स्याताम् ? परिणामित्वे च कथं नाऽऽत्मनस्तौ ? प्रकृतेर्मोक्षाङ्गीकारे च तस्या: स्वरूपहानिरेवाऽभ्युपगता स्यात् । यदुक्तम्- "प्रकृतिवियोगो मोक्षः" इति । ततश्च प्रकृतेः प्रकृतित्ववियोगे स्वरूपभ्रंशात् । तथा च कुतो नित्यत्वमस्याः । किञ्चैवं
पञ्चविंशतितत्त्वज्ञो यत्र तत्राऽऽश्रमे रतः
जटी मुण्डी शिखी वाऽपि मुच्यते नाऽत्र संशयः ॥
85
इति सिद्धान्तो मुक्तिप्ररूपको भवतां लुप्तः स्यात् प्रकृतेर्मुक्त्यभिधानात् । अतो दृष्टादृष्टयोर्विरोधभावादेकान्तनित्यत्वं नाऽस्त्येव सर्वस्याऽपि वस्तुनः ॥ नन्वस्तु एकान्तेन तर्हि अनित्य एवाऽऽत्मा - इति चेद् । उत्सुकोऽसि, परं स्थिरीभव । स्थिरभावमन्तरेण निर्णयानुपपत्तेः । यद्यात्मा अनित्य एव स्यात् तर्हि कथं द्वे अपि सुखदुःखे वेदयते ? | सुखवेदकस्य प्राक्क्षण एव नष्टत्वेन दुःखक्षणेऽनवस्थानात् । न चाऽन्य एव दुःखभोक्ता, सकललोक व्ययवहारोच्छेदप्रसङ्गात् । लोके हि व्यवहारोऽयं - य एवाऽयं प्राग् दुःखी आसीत् स एवाऽयमिदानीं सुखी । य एवाऽयं सुखसाधनार्थं यतते स एव किल सुखमाप्नोति । येनैव पूर्वभवे बद्धं कर्म, स एवाऽस्मिन् भवे भुङ्क्ते । य
Jain Education International
For Private & Personal Use Only
-
www.jainelibrary.org