________________
84
July-2002
नन्वयमेव तस्य स्वभावो यत् कदाचिद् बन्धः कदाचिन्मुक्तिः । न चाऽत्र पर्यनुयोगार्हत्वं, स्वभावस्य तथाविधत्वात् इति चेत् । नूनमुन्मत्तोऽसि यदेवं प्रलपसि । यतो बन्धस्य कारणं हिंसादिपरिणतिर्मोक्षस्य पुनरहिंसापरिणतिरनयोश्च परस्परं विरुद्धतया यौवनिकायां शिशुतेव अहिंसापरिणतौ हिंसापरिणतिर्नियतमपगच्छेत् अन्यथा तत्सद्भावेन प्रागिव बन्ध एवेदानीमपि केवलो भवेन्न मुक्तिरिति ध्रुवमनित्य एवाऽऽत्मा ।
अत्र वदन्ति- हिंसादिपरिणतिस्तद्विरतिपरिणतिर्वा आत्मनोऽवस्था-भूता। अवस्थाश्च अवस्थातुरेकान्तेन भिन्ना, धर्मधर्मिणोरेकान्तेन भेदाभ्युपगमात् । ततोऽवस्थानां विनाशेऽपि नाऽवस्थातुरपि विनाश इति नित्य एवाऽऽत्मा, अविचलितस्वरूपत्वात् इति चेत् । न । एकान्तभिन्नत्वेन ताभ्यां देवदत्तात्मनो बन्धो मोक्षश्च न स्यात् । एवमपि यदि स्यात् ततिप्रसङ्ग एव, सिद्धानामपि तत्फलाप्तेर्भेदाविशेषात् ॥
अथाऽऽत्मा न बध्नाति पुण्य-पापे, अकर्तृत्वात् । नाऽप्यसौ मुक्तो, बन्धाभावात् । न चाऽसौ संसरति, निःक्रियत्वात् । केवलं प्रकृतिरेव सत्वादिसाम्यावस्थारूपा संसरति बध्यते मुच्यते चेति । तदुक्तम्
तस्मान्न बध्यते[न मुच्यते]नाऽपि संसरति कश्चित् ।
संसरति मुच्यते बध्यते च नानाश्रया प्रकृतिः ॥ इति । तच्चिन्त्यते
. यदि प्रकृतिरेव बध्यते मुच्यते च, न पुनरात्मा, तस्य सर्वदाऽविकारवत्त्वात्, तर्हि भवजिहासया मुक्तरूपादित्सया च कथं वरतरुणीवक्षः स्थलशयनं विहाय हिमवच्छिलायां शेषे यमनियमवान् ? भवापवर्गयोरात्मनोऽविशिष्टत्वात् ।
ननु भ्रान्तिरियं भवताम् । नाऽहं यमादौ प्रवर्तेयं, किन्तु देहेन्द्रियमनोविकारसहिता प्रकृतिरेवेति चेत् । नूनमुदारोऽसि, स्वधनमन्येषां ददासि । यत् प्रकृतेरचेतनत्वेन घटदेरिवाऽऽलोचकत्वायोगात्, मुक्त्यर्थानुष्ठानस्य चाऽऽलोचनापूर्कत्वात् ।
अथाऽचेतनाऽपि प्रकृतिर्मनोविकारावस्था चेतनसम्बन्धाच्चिद्रूपा भवति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org