SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - २० 83 तस्य ततोऽन्यत्वात् । तन्न । ज्ञानं हि यदि एकान्तेनाऽऽत्मनोऽन्यत् स्यात् तहि तस्मादात्मनोऽर्थप्रतिपत्तिर्न स्यात्, तदभावाच्च तदानयनादौ प्रवृत्तिस्तु दूरापास्तैव । नहि देवदत्तसम्बन्धिनो ज्ञानाज्जिनदत्तस्याऽर्थप्रतिपत्ति; लोके मूर्खाभावप्रसङ्गात् । ततः कथञ्चिदभिन्नमात्मनो ज्ञानं स्वीकर्तव्यम् । एवं च यद्यात्मा एकान्तनित्यः स्यात् तर्ह्येकज्ञानवानेव स्यात् ज्ञानान्तरवत्त्वे ज्ञानाभिन्नत्वेन पूर्वज्ञानविनाशे आत्मनोऽपि कथञ्चिद् विनाशात् । किञ्चैवं हिंसादिपरिणतिरप्यात्मनो न स्यात्, एकान्तनित्यत्वेन सदैकस्वभावत्वात् । दृश्यते च यदि सेति स्वीक्रियते तदा पूर्वमहिंसादिपरिणतिलक्षणस्वभावोपमर्देन हिंसादिपरिणतिलक्षणस्वभावभावादात्मनोऽनित्यत्वं स्यात् । तदभावाच्च बन्धोऽपि कौतस्कुतः स्यात् ? अथैतद्दोषभयात् सर्वदैव हिंसादिपरिणतिरभ्युपगम्यते तदा मुक्तिः कदाचिदपि न स्यात् । तथा च यमनियमादिकरणमपि दृश्यमानमसङ्गतमेव स्यात्, प्रागवस्थायां तस्य हिंसापरिणतत्वात्, अथ हिंसा - परिणामस्य च त्वया सर्वदाऽभ्युपगमात् । कदाचिदनभ्युपगमे चाऽऽत्मनो भिन्नरूपत्वेनाऽनित्यत्वापातात् । न चैकस्वभाव-. त्वेऽपि कदाचिद् बन्धः कदाचिदबन्ध इति वाच्यं । बन्धाबन्धकाल - भेदेऽभ्युपगम्यमाने आत्मनोऽनित्यत्वापातात् । तथा हि-यदैवाऽस्य न बन्धस्तदा बन्धकारणहिंसापरिणतिस्वभावां जरसेव यौवनमबन्धकारणहिंसाविरतिपरिणामस्वभावेनाऽपनीयते, अन्यथा तत्परिणतिस्वभावभावेन पूर्वकालवद् बलाद् बन्ध एव स्यात् । न हि वह्निरनपगते दहनस्वभावे न दहतीति; तत्परिणतिस्वभावापगमे च नियतमनित्यता । माऽस्तु वा बन्धाबन्धकालभेदः, तथाऽप्यात्मा कथञ्चिदनित्य एव । अन्यथा य एव स्वभावः प्रथमसमये स एव द्वितीये, इति द्वितीयसमयबन्धनीयस्याऽपि कर्मणः प्रथमसमय एव बन्धः स्यात्, तत्कारणस्य स्वभावस्य विद्यमानत्वात्, प्रथमसमयभाविबन्धवत् । ततो द्वितीयादिक्षणेऽबन्ध-कत्वमात्मनः प्राप्तमिति स्वभावभेदादनित्य एवाऽऽत्मेति स्थितम् । किञ्चैवमहिंसादिविरतिपरिणतिरपि न सम्भवति, जीवस्यैकस्वभावत्वेन हिंसापरिणतिविच्युत्यभावात् । न चेष्टापत्तिः, मुक्त्यभावप्रसङ्गात्, तत्कारणहिंसादिविरतिपरिणत्यभावात् । अथ हिंसादिविरतिपरिणतिरभ्युपगम्यते तर्हि सर्वदा तदेकस्वभावत(वत:) मुक्तिरेव स्यात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy