________________
82
July-2002
विशेषात् ।
अथ खड्गस्य छेदका[दि]स्वलक्षणः स्वभावस्तु वर्तते, सर्षपस्य तु नाऽस्ति इति चेद् वर्ततां नाम, परं परमाणौ छेदितव्ये स वर्ण्यमानोऽनर्थक एव, तत्र द्वयोरप्यकिञ्चित्करत्वात् ।
अथाऽऽत्मन एवाऽयं स्वभावो यदनुपकार्यपि स्रक्-चन्दनादिकं प्राप्य सुखी दुःखी वा भवति आत्मा इति चेत् । विवक्षितसहकारिसन्निधानात् प्राक य आत्मनः स्वभावः स चेत् सहकारिसन्निधाने न निवर्तते तदा स सुखी वा दुःखी वा न स्यात्, प्राचीनस्वभावत्वात् । अथ निवर्तते तदा प्राप्तमनित्यत्वं, पूर्वस्वभावपरित्यागेनोत्तरस्वभावोत्पादात् ।
अथोच्यते-अन्य एवाऽऽत्माऽन्यच्च सुखादि, अतः कथं सुखादियोगान्यथानुपपत्त्याऽऽत्मनः परिणामित्वम् ? । तन्न । एवं प्रतिप्राणिप्रसिद्धः सुखानुभव: कस्य स्यात् ? आत्मनः सुखान्यत्वेन तदनुभवाभावात् ।
__ अथ यथा स्फुटिकस्याऽलक्तकयोगाद् रक्तता भवति तथा आत्मनोऽपि सुखादियोगात् तत्प्रतिबिम्बेन तदनुभव इति चेत् । न । स्फुरिकोपलस्य हि तत्तदुपधानभेदेन तत्तत्प्रतिबिम्बं युक्तम् । तस्याऽपरापररूपापत्तियोगतः परिणामित्वात् । आत्मा तु त्वयैकान्तो नित्य इष्यते । ततस्तस्य तत्तत्प्रतिबिम्बरूपतापत्तिलक्षणपरिणामशून्यत्वात् सर्वथा सुखादिप्रतिबिम्बमयुक्तम्। यदि च सुखादिसन्निधानात् आत्मनः अपरापरसुखादिप्रतिबिम्बरूपतापत्तिलक्षणः परिणाम: स्वीक्रियते तदा प्राप्तमात्मनः परिणामित्वम् । तथा च सति तस्य ह्लादादिस्वभावत्वात् सुखादीनामात्मधर्मत्वप्रसङ्गः । न हि सुखमचेतने, अनुभवविरोधात् । किन्त्वात्मन्येव । न चैकान्तनित्यपक्षे सुखयोगो घटते, सुखसामग्रीप्राप्त्यभावप्रसङ्गात् । कदाचित् सुखसामग्रीप्राप्तौ पूर्वस्वभावपरित्यागेन नियमेनाऽऽत्मनोऽनित्यत्वात् ।
किञ्च, यद्यात्मा एकान्तनित्यः स्यात् तर्हि प्रतिप्राणिप्रसिद्धो घटपटादिविज्ञानविवर्तोऽपि न स्यात् । किन्तु आकालं घटाद्यन्यतरस्यैव कस्यचिद् विज्ञानं स्यात्, एकस्वभावत्वे भिन्नभिन्नवस्तुविषयकविज्ञानासम्भवात् । क्रमेण भिन्नभिन्नवस्तुविषयविज्ञानं च दृश्यत एवाऽऽत्मनि इति स्वभावभेदात् स्फुटमनित्यत्वम् ।
अथ विज्ञानं यद्घटपटादिविषयकमुत्पद्यते तदेवाऽनित्यं, न पुनरात्माऽपि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org