SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ 88 July-2002 मृत्त्वादिलक्षणा भावरूपता यथा प्रतीयते तथाऽत्राऽपि, तथा चाऽस्तु तत्रेवाऽत्राऽपि अन्वयाभाव इति । तन्न, तद्रूपशक्तिगन्धपरिमाणादिसङ्गताया भावरूपताया अन्वयसिद्धिनिबन्धनत्वेनाऽधिकृतघटजन्यकपाल इव घटान्तरजन्यकपालेऽन्वयानापत्तेः । तत्रेवाऽत्र तथाभूताया अस्या अननुभवात् । अथ यस्मिन्नेव क्षणे कारणं विनश्यति तस्मिन्नेव क्षणे कार्य जायते। अतो नाऽभावाद् भावः, कारणादेव कार्योत्पादात् । नाप्यन्वयापत्तिः, कारणस्य निरन्वयनाशात् । तन्न । कारणकार्ययोविनाशोत्पादौ न कारणकार्ययोभिन्नौ । तथा सति तत्सम्बन्धित्वाभावप्रसङ्गात्, अर्थान्तरगतविनाशोत्पादवत् । किन्त्वभिन्नौ। तथा च नाशोत्पादयोः कार्यकारणभावः स्यात्, कारणकार्याव्यतिरिक्तत्वात्, तत्स्वरूपवत् । न चैतद् युक्तम्, विवक्षितयोः कारणकार्ययोर्युगपद्भावित्वेन युवतिकुचयोरिव कार्यकारणभावानुपपत्तेः । युगपद्भावश्च तयोरभिन्नकालनाशोत्पादाभिन्नत्वाभ्युपगमात् । अथैते उत्पादविनाशादयो न पारमार्थिकाः किन्तु कल्पिताः । न हि वस्तूनां तदतिरिक्ता काचित् क्रिया इति चेत् । तथाऽपि नाशोत्पादौ तावत् प्रतिप्राणि प्रत्यक्षेणोपलभ्येते । तौ च तुल्यकालाविति कथं भेदाभेदोद्भवा दोषाः परिहार्याः ? । ननु क्षणस्थितिधर्मा भाव एव नाशो न तु तदन्यः कश्चित् । तदुक्तम्"क्षणस्थितिधर्मा भाव एव विनाश" इति । तत् कथमत्र तत्कल्पनेति चेत् । तथाऽपि कारणसत्ताक्षण एव कारणविनाशक्षणः, स एव चेत् कार्योत्पादक्षणस्तदा समकालभावितया कमलनयनानयनयोरिव कथं तयोः कार्यकारणभावः स्यादिति चिन्त्यम् । अथ यदि कारणतन्नाशयोधर्मधर्मिभावः परिकल्पित एवेति ब्रूषे तदा हेतुफलभावोऽपि कुत: ? कल्पितस्याऽपरमार्थतो सत्त्वेनोभयस्याऽपि धर्मिधर्मलक्षणस्याऽभावात् । न च धर्मधर्मिव्यतिरिक्तं किञ्चिद् वस्त्वस्ति यद् हेतुः फलं वा भवेत् । न च धर्मिधर्मभावः कारणं तद्विनाशः कार्यं तदुत्पाद इत्येवंरूपो यः स एव परिकल्पितो न तु धर्म्यपि कारण कार्यलक्षणः । तन्न हेतुफलाभावाभावरूपो दोष इति चेत् । न । यदि उत्पादविनाशरूपो धर्मः परिकल्पितस्तदा कार्यकारणलक्षणो धर्मी कुतः पारमार्थिकः स्यात् ? । धर्मरहितस्य निःस्वभावतया Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy