________________
54
July-2002
नीरूपाच्च घटाद् यदि तदुत्पत्तिस्तहि पवनादपि किं न स्यात् ?, उभयत्र विशेषाभावात् । न च भेदेऽपि समवायो नियामकः इति वाच्यम् । तस्य त्वयाऽनङ्गीकारात् । अङ्गीकृत एवाऽयं नैयायिकैरित्यस्माभिरप्यङ्गीक्रियते । न हि ते न न्यायविद इति चेत्, न, तन्निरासोऽपि नाऽस्माकं दुष्करः, परं तदर्थमिह न यतिष्यामहे, सिसाधयिषाविषयस्याऽऽत्मलक्षणार्थस्याऽयत्नेनैव सिद्धेः । नैयायिकानां न्यायवित्त्वमङ्गीकुर्वता भवता आत्मनोऽभ्युपगतत्वात् । तस्मानैकान्तेन रूपादि स्वोपादानाद् भिन्नं किन्त्वभिन्नमपीति सिद्धं मूर्तोपादानकस्य रूपादेरपि मूतत्वं कथञ्चित् ।
अथ भूतकार्यत्वेऽपि रूपादेर्यथा कथञ्चिन्मूतत्वं तथा चैतन्यस्याऽप्यस्तु इति चेत् । नूनं उदारान्त:करणोऽसि यदालोच्याऽपि स्वसिद्धान्तहानि न व्यथसे। स्याद्वादं वदन्तो हि जैना एव सदसि राजन्ते. न पुनर्भवादृशा एकान्तवादकदाग्रहग्रस्ताः । एवमपि भूतसमुदायाच्चैतन्यस्योत्पत्तेरभावात् । न हि रूपमिव प्रत्येकं भूतेषु सत् चैतन्यं, येन तत्समुदायाच्चैतन्यमुत्पद्येत, नीलतन्तुसमुदायान्नीलरूपमिव । न चाऽसदप्युत्पद्यते सामग्र्याः सद्भावादित्यपि वाच्यम् । असत्त्वाविशेषात् सा चैतन्यस्येव खरविषाणस्यैव सामग्री कुतो न स्यात् ? । अवध्यभावेनाऽनुत्पन्नस्य चैतन्यस्य खरविषाणतुल्यत्वात् । न च-दृष्ट एव दण्डादिसामग्या असन्नेव घट उत्पद्यमानो न पुनः पटः, कारणशक्तिनियमादित्यपि प्रागुक्तं किं न स्मर्यत ? इत्यपि वाच्यम् । तदानीमपि घटस्यैकान्तेनाऽसत्त्वाभावात्, घटपर्यायेण तदानीमविद्यमानस्याऽपि मृत्पिण्डरूपेण विद्यमानत्वात् । न हि . मृत्पिण्डादेकान्तेन घटस्य भेदो, येन तदानीं न स्यात् । दण्डादिसामग्रीसमावेशेन घटाकारेण परिणममानस्य मृत्पिण्डस्यैव घटशब्देनाऽभिधानात् । न हि पूर्वाकारपरित्यागेनोत्तराकारस्वीकारादेव वस्तुन भेदः, पितृपुत्रव्यवहारविलोपप्रसङ्गात् । जन्मकालीनपरिणामापन्नभूतसमुदायाद् यौवनकालीनकायपरिणामापनभूत-समुदायस्यैकान्तभिन्नत्वेन जन्मकालेऽसत्त्वात् ।
यदि यौवनकालीन एव भूतसमुदायो जन्मकाले परिणामा-न्तरेणा-- ऽऽसीदेवेति न तस्य जन्मकालेऽसत्त्वं, तर्हि घटपरिणामापन्नं भूतकार्यं मृत्पिण्डरूपेण पूर्वमासीदेवेति कथमेकान्तेनाऽसत्त्वम् ? ।
तदप्रामाणिकमेवोक्तं यद् दृष्टस्तावद् दण्डादिसामग्र्याऽसनेव घट
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org