________________
अनुसंधान-२०
स्यादिति चेत्, न भूतकार्यत्वे चैतन्यस्याऽमूत्यदिरनुपपत्तेः । तथाविधस्वभावकल्पने कोशपानादन्यस्य प्रमाणाभावात् । न हि घटादीनामपि वैचित्र्यमेकान्तेन स्वभावकृतं, कार्यकारणभावविलोपापत्तेः । किन्तु कारणवैचित्र्यकृतम् । अत एव नीलतन्तुभ्यो नील एव पट उत्पद्यते, न शुक्लः, उपादानकारणीभूततन्तुसमुदाये शौक्ल्याभावात् । शुक्लतन्तुभ्य: पुनः शुक्ल एव, न तु नीलः, उपादानकारणीभूतन्तुसमुदाये नैल्याभावात् । तदुभयमपि मूर्त्ते तु भवत्येव, उभयोपादाने मूर्त्तत्वस्य सत्त्वात् । तदेवं यदि चैतन्यं भूतोपादानकं स्यात् तर्हि भूतानां मूर्तत्वेन जडत्वेन विषयापरिच्छेदकत्वेन चैतन्यमपि मूर्त्तं जडं विषयापरिच्छेदकं स्यात् । न चैवम् । तस्मान्न भवत्येव चैतन्यं भूतोपादानकम् ।
न च निरुपादानमपि किञ्चिद् वरिवर्तित । अतो य एतस्योपादानं स आत्मा, तत्तद्द्रव्यक्षेत्रादिसामग्रीसापेक्षेणाऽऽत्मनैव तस्य तस्य चैतन्यपरिणामस्य जन्यमानत्वात् ॥
,
स्यादेतत्-भूतसमुदायोपादानकमपि चैतन्यममूर्त्तं भवतु, मूर्तोपादानकस्य मूर्त्तत्वमेवेत्यत्र मानाभावात् । न च प्रत्यक्षमेव मानं मूर्त्तकपालादिजन्यानां घटादीनां मूर्त्तत्वस्यैव विलोकनादिति वाच्यम् । घटादीनां तथात्वेऽपि सर्वत्र तन्नियमस्याऽसिद्धेः । मूर्त्तघटाद्युपादानकस्याऽपि रूपादेरमूर्त्तत्वाभ्युपगमात् । रूपादिविशेषो हि मूत्तिरभिधीयते । न हि सा रूपादावपि रूपादौ रूपादेरनङ्गीकारात्। न चैकान्तेनाऽसतश्चैतन्यस्य कथमुत्पत्तिः स्याद् ? अन्यथा खरविषाणस्याऽपि सा न कथं स्याद् ? इत्यपि मुग्धविप्रतारकं वचनं वाच्यम् । सामग्यधीना ह्युत्पत्तिर्वस्तुनः इति खरविषाणं सामग्ग्रा अभावान्न भवति, चैतन्यं तु भविष्यति, सामग्य्राः सत्त्वात् । दृश्यते च दण्डादिसामग्रीसद्भावेऽसन्नेव घट उत्पद्यमानो, न पुनः पटः; दण्डादेः पटसामग्रीत्वाभावात् पर्यायेण व्यभिचाराच्च । तस्य त्वयाऽप्येकान्तेनाऽसत एवोत्पत्त्यभ्युपगमात् ।
53
तन्त्र | मूर्त्तघटाद्युपादानकस्य रूपादेरकान्तेनाऽमूर्त्तत्वाभावात् उपादेयस्य उपादानात् कथञ्चिदभिन्नत्वेन तन्मूर्त्ततया कथञ्चित् तस्याऽपि मूर्तत्वात् । नहि घटादेरुपादानादुपादेयत्वाभिमतं रूपादि एकान्तेन भिन्नं पवनस्येव घटादे - र्नीरूपत्वप्रसङ्गात् पवनस्याऽपि वा घटादेरिव रूपवत्त्वापत्तेः । भिन्नं हि तद्रूपं घटादेरेव, न पुनः पवनस्येत्यत्र किं नियामकं स्यात् ?, उभयत्राऽऽपत्तेरविशेषात् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org