SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-२० 55 उत्पद्यमान इत्यादि । पटस्तु नोत्पद्यते पटसामग्र्या अभावात्,- तत् तु सत्यमेव, परं यत्राऽप्युत्पद्यते तत्राऽपि कथञ्चित् सन्नेव, न तु सर्वथाऽसन्नित्यादि स्वयमूह्यम् । एकान्तेनाऽसत उत्पत्तेरेव विरोधात् । न च-पर्यायेण व्यभिचार-इत्यपि वाच्यम् । द्रव्यस्यैवाऽनेकशक्तिसमन्विततयाऽस्य तथा भवनेन तस्य सर्वथाऽसत्त्वासिद्धेः । मृत्पिण्डादेहि द्रव्यस्य तथारूपेण भवनाभावे घटादिलक्षणपर्यायस्याऽदलत्वेनाऽभवनमेव प्रसज्येत । ततो द्रव्यस्य मृत्पिण्डादेरन्यथाभवनमात्रं घटादिपर्यायस्योत्पत्तिरिति न दोषः । न च वाच्यं-यāव्यस्याऽन्यथाभवनमात्रं तेन व्यभिचारस्तस्याऽसत एवोत्पादादिति । तस्याऽपि कथञ्चिद् द्रव्येन सहाऽभेदतः सर्वथाऽसत्त्वासिद्धेः । प्रभूतं चाऽत्रं वक्तव्यं, तद् भेदाभेदस्थापनास्थल एव वक्ष्याम इति प्ररूप्यते प्रकृतम् । ___ तत् सिद्धमिदं यत् सर्वथाऽविद्यमानं चैतन्यं भूतसमुदायानोत्पद्यत एव । दृश्यते चोत्पद्यमानमित्यस्योपादानेन भाव्यं, यत् तत्तत्सामग्रीसमावेशात् तत्तच्चैतन्यपरिणामेन परिणमति । न च भूतसमुदय एवोपादानं, एतस्य जडत्वेन घटादेरिव चैतन्यपर्यायेण परिणमनायोगात् । इति यदेवाऽस्योपादानं स एवाऽऽत्मा, यद्विरहान्मृतशरीरे चैतन्याभाव इति । तदसिद्धिराक्षस्या भक्षितं तद्भाव एव भावादित्यादिकं प्रमाणं कथं स्वसाध्यं साधयेत् ? भूतसमुदायसद्भावेऽपि तदतिरिक्तस्य चैतन्यानुरूपोपादानस्याऽभावे चैतन्यस्याऽभावात् । न च प्राणापानयोरेवोपादानत्वं, तयोरुष्णस्पर्शवत्त्वेन मूतिमत्तया तदुपादानस्य चैतन्यस्याऽपि मूर्तत्वापातात् । किञ्च यद् यस्योपादानं तन्महत्त्वे तदुपादेयस्याऽपि महत्त्वं, तदल्पत्वे च तदुपादेयस्याऽप्यल्पत्वं, यथा घटस्य मृत्पिण्डः । भवति हि मृत्पिण्डस्य महत्त्वे घटस्याऽपि महत्त्वं, तदल्पत्वे च तस्याऽप्यल्पत्वम् । एवं च यदि प्राणापानलक्षणा पवन: चैतन्यस्योपादानं स्यात् तर्हि तद्बहुत्वे चैतन्यमपि बहु स्यात् । न चैवं, मरणावस्थायां वैपरीत्यात् । न च तदल्पत्वे चैतन्यस्याऽल्पत्वमपि, योगिषु प्राणापानयोः सर्वथाऽल्पत्वेऽपि चैतन्यस्य बहुत्वात् । अनयैव युक्त्या कायोपादानकत्वमपि निरस्यम् ॥ या पुनः बालकादेः शरीरवृद्धो चैतन्यवृद्धिः, सा शरीरस्य चैतन्यं प्रति संसारिदशायां सहकारिकारणतया उदकवृद्धौ अङ्कुरवृद्धिवत्, न पुनरुपादानतया; तथात्वे नियमेन चैतन्यस्य तद्वद्धयनुविधायित्वापत्तेः । न चेष्टापत्तिः, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy