SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ July-2002 (३) अथाऽनागतचतुर्विंशतिकाहारावलितृतीयचित्रस्तवं व्याचिख्यासुः प्रथम वृत्तमाह । स्थापना प द्मा दुरापा तव पद्मना तेव शब्दादिगता जिनें | ना | थोऽगिनां भद्रकृदासगी: वेंदिराया इव साध्वहो कृत् भ | अ व्याख्या : हे पद्मनाभजिनेन्द्र ! तव पद्मा-लक्ष्मीर्दुरापा-दुःप्रापा, वर्तते इत्यध्याहार्यम् । केव ?, शब्दादिगताऽद्यतेव । यथा शब्दादौ 'घ' इति संयुक्ताक्षरं दुर्लभम् ॥ अथोत्तरार्द्धव्याख्या:- हे भद्रकृत्-चरमजिनपते ! अहो इति सम्बोधने । त्वं साधु-सम्यक् प्रकारेण अङ्गिना-प्राणिनां नाथो भव । किविशिष्टस्त्वं ?, आप्तगी:कृत् - आगमवाणीविधायक: । क इव ?. विष्णुरिव । यथा अ:-विष्णुः इन्दिराया-लक्ष्म्याः नाथो बभूवेत्यर्थः ॥१॥ सर्वत्र पातनिका पूर्ववत् ॥ द्वितीयवृत्तमाह । स्थापना । रादिदेवाभ्युदयं जनी वेरिवेच्छामि तवेह ता दे | शे व ते संगम एष भा व | रेण्यपुण्याप्तिरनंतवी | वी व्याख्या : हे सूरादिदेव-सूरदेव ! तात ! इहाऽस्मिन् संसारे तवाभ्युदयमिच्छामि-वाञ्छामि । किंविशिष्टं ?, जनीनं-जनेभ्यो हितं, कस्येव? खेरिव-सूर्यस्येव, यथा स्वेरभ्युदयमिच्छामीत्यर्थः ॥ द्वितीयार्धव्याख्या:- हे अनन्तवीर्यजिन ! एष तव सङ्गमः क्व देशे भावी- भविता ?, किंविशिष्टः ? वरेण्यपुण्याप्ति:- वरेण्येन-प्रधानेन पुण्येन-सुकृतेन आप्तिः-प्राप्तिर्यस्य स तथा इत्यर्थः ॥२॥ तृतीयवृत्तस्थापना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520520
Book TitleAnusandhan 2002 07 SrNo 20
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2002
Total Pages122
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy