SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ अनुसंधान - १७ • 180 इति वैशेषिकाभिप्रायेण मन्त्रव्याख्या ॥ ३ ॥ हे अथ साङ्ख्याः स्वं देवं कपिलं प्रणिदधाना इदं वदन्ति धीम ! धीर्बुद्धिस्तत्त्वम्, तन्मिमीते शब्दयति प्ररूपयति इति धीम:- भगवान् कपिलस्तस्याऽऽमन्त्रणम् । ॐ भूर्भुवः स्वस्तदिति पूर्ववत् । अमूर्तश्चेतनो भोगी नित्यः सर्वगतोऽक्रियः । - अकर्ता निर्गुणः सूक्ष्म' [ आत्मा कापिलदर्शने ॥ १ ॥ इति वचनात् । सवितुर्वरेण्यमित्यक्ष] पादपक्षवत् । कपिलमेवोपयोगसम्पदा विशेषयति-भर् इति ।' 'टुडुभृंगक्' बिभर्तीति भर् विचि गुणे रूपम् । कस्य ? इत्याहगोदेवस्य । गोशब्देनाऽत्र खरककुद विषाणसास्नालाङ्गूलाद्यवयवसम्पन्नः पशुरुच्यते । तेन च विधेयता लक्ष्यते । ततो गौरिव विधेयानि वश्यानि यानि देवानीन्द्रियाणि यस्य स तथा तस्य जितेन्द्रियस्येत्यर्थः । न च गोविधेयता कवीनां न रूढा । 'गौरिवेति विधेयता' मिति प्रयोगदर्शनात् । धीम इति व्याख्यातमेव । हि स्फुटम् । धियोयो इति - हे बुद्धितत्त्वात् पृथग्भूत ! । प्रकृतिपुरुषविवेकदर्शनान्निवृत्तायां प्रकृतौ पुरुषस्य स्वरूपावस्थानं मोक्ष इति वचनात् । प्रकृतिवियोगे च बुद्ध्यादीनामपि विगमात् कारणाभावे कार्याभावात् । धिय इति पदं पुनरावृत्त्या पञ्चम्यन्तं प्रचोदयेत्यनेन सम्बध्यते । ततश्च धियो- बुद्धितत्त्वात् नोऽस्मानपि प्रचोदय' - व्यपनयेत्यर्थः । षष्ठ्यन्तं वा धिय इति । षष्ठी च कर्मणि शेषजा । यथा माषाणामश्नीयात् । तथा-"न केवलं यो महतां विभाषते ५ । ततश्च नोऽस्माकं धियं-प्रकृतिहेतुकां व्यपनयेत्यर्थः । स्वयं मुक्तोऽस्मानपि मोचयेति यावत् । अत् इति । अदिति दान्तमव्ययं 'आश्चर्यार्थे । ततश्च अदिति आश्चर्यरूपः तत्कारणेऽ'निवृत्तत्वात् । तस्याऽऽमन्त्रणे हे अद् ! 'विरामे वा' इति दस्य तः। १. [ ] एतदन्तर्गतः पाठः ता. प्रतौ लेखनदोषात् त्रुटितः प्रतिभाति । च रूपम् ने. । २. 'टुडुभृंगक् पोषणे च' बिभर्तीति भर् पोषकः, विचि गुणे ३. ०दसास्नालाङ्गूलविषाणाद्या( द्य ) वय० ने. । ४. ०दय - प्रेरय ने. । ६. ०पनयेति भावः ने. । ७. आश्रयार्थं ने. । ८ ० निवृत्तित्वात् ने. । ९. व्यप० ने. । ५. ० षतेऽत्र ततश्च हे० ता. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy