________________
अनुसंधान - १७ • 179
प्रार्थना अवस्य इति । क्रियापदद्वयं यथासङ्ख्यमुत्तरपदद्वयेनाऽभिसम्बन्ध्यते । तत्र अव - रक्ष, 'पालयेति यावत् । किमित्याह धीमिति कर्मपदम् । धीः बुद्धिस्तत्त्वाधिगम इति यावत् । तस्या ई: - श्रीर्धीः, तां धीम् । युक्ता चेश्वरतः प्रार्थना ज्ञानस्य । "ईश्वरात् ज्ञानमन्विच्छेत्" इति वचनात् । तथा स्य-विनाशय । 'षोंच् अन्त:कर्मणि' इत्यस्य रूपम् । किमित्याहअहिधियः कर्मतापन्नाः, 'अहे. सर्पस्येव धियः "क्रूरताद्या: नोऽस्माकं बुद्धि वर्द्धय कुबुद्धींश्च विध्वंसयेत्यर्थः ।
पुनर्विशेषा (षणा)न्तरमाह- हे यो ! मिश्रित ! सम्बद्ध !। 'युक् मिश्रणे' इत्यस्य विचि रूपम् । कया ? इत्याह प्रचोदया । 'चुदण् सञ्चो'दने' चोदनं चोदः शृङ्गारभावसूचकम् । प्रकृष्टश्चोदो यस्यां सा प्रचोदा, अर्थात् पार्वती, तया सह इति वाक्यशेषः । अर्वाचीनावस्थायां पार्वतीपीनपयोधरप्रणयीत्याकूतम्, 'मुक्तावस्थायां प्रचोदयाऽया (यो ) - ऽमिश्रित ! इति व्याख्येयम् । षडिन्द्रियाणि षड्विषयाः षड् 'बुद्धयः सुखं दुःखं शरीरं चेत्येकविंशति-भेदभिन्नस्य दुःखस्याऽत्यन्तोच्छेदो मोक्ष इति नैयायिकवचनप्रामाण्यात् । कामान् अत् विशेषणम्,
तथा उदे इति प्राची [न] विशेषणमपि । उत्क्रान्त ए इत्युदिस्तस्याऽऽमन्त्रणं" हे उदे ! इति योज्यम् । तथा अत्ति भक्षयति जगदिति सृष्टिसंहारकत्वात् । उक्तं च - अक्षपादमते देवः सृष्टिसंहारकृच्छिवः । विभुर्नित्यैकसर्वज्ञो नित्यबुद्धिसमाश्रितः ॥ १ ॥
-
Jain Education International
>
-
अथ
इति नैयायिकाभिप्रायेण १२ मन्त्रस्य व्याख्या २ ॥ वैशेषिकाभिप्रायेणाऽप्येवमेव 1 तैरपि शिवस्य देवतयाऽभ्युपगमात् । नवरं तन्मते परमपदावस्थास्वरूपमेवम्- 'बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काररूपाणां नवानां विशेषगुणानामत्यन्तोच्छेदो मोक्ष' इति । १३ १. पालय वर्द्धयेति ने । २. बुद्धिर्ज्ञानं तत्त्वाधिगमं इत्यनर्थान्तरम् ने । ३.धियः ईः ने. । ४. अहि: - सर्पस्तस्येव ने । ५. क्रूरताद्या पराऽपचिकीर्षकादिव ता: ने. । ६. वर्द्धय क्रूरताद्याः कुबुद्धींश्च ने । ७. ०चोदने ततश्चो० ने. । ८. परमपदावस्थायां तु ने. ।९. शुद्धयः ता. । १०. ०तिप्रभेद ने । ११. ० मन्त्रणं उ ! ने. ।। १२. मन्त्रव्या० ने. । १३. इति । अथ सांख्याः ने. ।
For Private & Personal Use Only
www.jainelibrary.org