SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१७• 178 कामानुषक्तस्य रिपुप्रहारिणः प्रपञ्चिनोऽनुग्रहशापकारिणः । सामान्यपुंवर्ग'सधर्मधारिणो महत्त्वक्लप्तौ सकलस्य तद्भवेत् ॥ १ ॥ इह चाऽधीमहि वसी ति विशेषणेन रागसूचनम्, तत्साहचर्यात् द्वेषमोहावप्यवसेयौ, तेषामायुधादिसद्भावात् पूर्वापरव्याहतार्थागमाद्यभिधानाच्च । यदाह - "रागोऽङ्गनासङ्गमनानुमेयो, द्वेषो द्विषद्दारणहेतिगम्यः । मोहः कुवृत्तागमदोष साध्यः' इत्यादि ॥ आचार्यादीनां न सर्वथा रागादिक्षय इति चेत् ? न । तेषामप्याप्तो पदेशानुसारे[ण] तत्क्षयार्थमेव प्रवृत्तेः तथाविधरागाद्यसद्भावात्, तदत्यन्तक्षयस्य च भावित्वात् 'भाविनि भूतवदुपचा रात्।' तेषामपि वीतरागतैवेति भावाचार्यादिभिरेव चाऽत्राऽधिकार इति सर्वं समञ्जसम् ।। इति जैनाभिप्रायेण व्याख्या ॥ १ ॥ अथाऽक्षपादाः स्वं देवमीश्वरं प्रणिदधानाः प्रार्थनापुरस्सरमेवमभिदधतिभूर्भुव इत्यादि । ॐ इति सर्वविद्यानामाद्यबीजं सकलागमोपनिषद्भूतं १°सर्वविघ्नविघातनिघ्नमखिलदृष्टादृष्टफलसङ्कल्पकल्पद्रु मोपममित्यस्य प्रणिधानस्यादावुपन्यस्तं परममङ्गलम् । न चैतद्व्यतिरिक्त मन्यत्तत्त्वमस्तीति । हे भूर्भुवःस्वस्तदिति लोकत्रयव्यापिन् ! | अक्षपादानां हि शिवः सर्वगत इति । __ तथा सवितुर्भास्वतो वरेण्य प्रधानतरसर्वज्ञत्वात् । वरेण्य इति अनुनासिकस्य 'अइउवर्णस्यान्तेऽनुनासिकोऽनीदादे'रिति लक्षणवशाद्; यथा- सामं साम । विशेष्यमाह - हे भर्ग उदे इति । तत उत्कृष्ट इ. - कामो यस्य उदिस्तस्याऽऽमन्त्रणं हे उदे ! । अर्वाचीनावस्थापेक्षया विशेषणमिदम् । १. समानधर्मिणो ने० । २. तार्थाभि० ता. । ३. यदुक्तम् ने. । ४. ०पदेशेन रागादिक्षयार्थं ने.। ५. ०राद्वीतरा. ने. । ६. इत्यार्हताभिप्रायेण मन्त्रव्याख्या ने. । ७. ०दधते ने. । ८. ०भुवेति ने. । ९. समस्तागमो० ने. । १०. अशेष विन० ने. । ११. ०मन्यत्तत्त्वमस्ति वस्तु इति ने. । १२. साम ध्रुवं १ इति । विशेषकमाह ने. । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520517
Book TitleAnusandhan 2000 00 SrNo 17
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages274
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy