________________
अनुसंधान-१७. 177 राधा पुनातु जगदच्युतदत्तदृष्टि-मन्थानकं विदधती दधिरिक्तभाण्डे । तस्याः स्तनस्तबकलोलविलोचनालि-देवोऽपि दोहनधिया वृषभं निरुन्धन् ॥ १ ॥
इत्यादि । शिष्यं प्रति शिक्षामाह - हे नः !-नर ! नृशब्दस्याऽऽमन्त्रणे रूपम् । सबहुमानं ह्यामन्त्रितः शिष्यः प्रस्तुतार्थश्रवणे 'सोत्साहो भवतीति । अतो विशेषणमाह - धियो यो इति । 'युक् मिश्रणे' इत्ययं परैरमिश्रणे चेत्यभिधीयते, अतो यौति-पृथग्भवति इति युः, विचि छान्दसत्वाद् गुणाभावः । न युः - अयुः, तस्याऽऽमन्त्रणं हेग्यो ! - अपृथग्भूत ! । कस्याः ? धियः', यतस्त्वं बुद्धेरपृथग्भूतो बुद्धिमान्-प्रेक्षापूर्वकारी, अतस्त्वं शिष्यसे, अन्यस्य “मूढादेरुपदेशानर्हत्वात् ।
पुनर्विशेषणान्तरमाह - प्रच इति । प्रकृष्टं चिनोति । प्रकृष्टाचारो मार्गानुसारि-.. प्रवृत्तिरिति यावत् । 'क्वचिदिति डे रूपम् । यथा वाचे हिंस इति. (?)| प्रकृष्टाचारे ह्युपदेशसाफल्यम्, आचारपराङ्मुखानां शास्त्र प्रतिपादने प्रत्युत प्रत्यपायप्रसङ्गात् । किं ? उदयात् । उदयं प्राप्तं - अनन्यसामान्यगुणातिशयसम्पदा प्रतिष्ठितमाराध्यत्वेन परमेष्ठि पञ्चकम् । ___ अयमिह तात्पर्यार्थः - ईश्वर-ब्रह्म-विष्णुषु उपलक्षणत्वादन्येष्वपि कपिलसुगतादिदैवतेषु मध्ये भोः पुरुष ! ज्ञानवत् प्रकृष्टाचार(रं) परमेष्ठि-पञ्चकमेव पूर्व प्रदर्शितदिग्मात्रगुणातिशययोगादाराध्यतया प्रतिष्ठितमतस्तदेवाऽऽराधनीय तद्व्यतिरिक्ताराध्यान्तरस्य असद्भावात् । सद्भावे वा वस्तुतस्तत्त्वानुपत्तेः । तदोषाणां लेशत इहैव निर्णीतत्वात्, तथा च सत्यपि आराध्यतायामतिप्रसङ्गः । उक्तं च -
१. उत्साहितो भवति ने. । २. चेत्यधीयते ने० । ३. ०मन्त्रणेऽयो ने०। ४. धियो बुद्धितः ने० । ५. तदन्यत्र हि रक्तद्विष्टमूढपूर्वव्युद्ग्राहितादावुपदेशानर्हत्वादन्धकार त्रानुकारी प्रयास इति ने० । ६. पुनर्युत्पाद्यस्यैव विशे. ने. । ७. शास्त्रसद्भावप्रति० ने । ८. व्यसम्भवात् ने० । ९. पञ्चककर्तृभूत इति ने०। १०. पूर्वदर्शित० ने। ११.०यं तदेवोपासनीयं तदेव शरणतया प्रतिपत्तव्यं तदाज्ञामृतरस एव [त?] थाऽऽस्वादनीयः ने० । १२. भावेऽपि ने० १३. तद्वत्त्वेनाऽपि वाऽऽराध्य. ने० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org