SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अनुसंधान-१६ .25 नन्तुं जनाश्च सकलाः स्पृहयन्ति येभ्यो बहिर्मुखा इव मुदा जगदीश्वरेभ्यः ॥१३९॥ दूरे व्रजन्ति जगतां दुरितानि येभ्यः पाथोजिनीपरिवृढेभ्य इवांस्रकाराः । येषां निपीय वचनामृतसङ्गभाजः संप्राप्नुवन्ति विबुधत्वमहो ! अनेके ॥१४०॥ येषु ध्रुवं नहि गुणान् प्रतिवक्तुमीशः कोऽपि स्वबुद्धिपरितजितफल्गुनीजः । किं वारिधिष्विव मणीन् मरुतां पथेषु ज्योतींषि वा गणयितुं क्षमते हि कश्चित् ? ॥१४१॥ तैस्तातपादैर्गुणवर्धमानैः पयोदनादैनिहताभिमानैः । नश्यद्विषादैनरनम्यमानैः पयोजपादैः सितपत्रियानैः ॥१४२॥ अभीष्टदान (धु)तरूपमान-स्सदा युतैश्चारुगुणैरमानैः । तमस्तमोवासरकृत्समान-र्यशोवितानैर्व्वतवत्प्रधानैः ॥१४३।। स्वमूर्तिमत्पाटवसत्परिच्छद-प्रबर्हनैरुज्यसमाधिसूचकः । तथाविधोदन्तविशेषगर्भितः प्रसद्य लेखस्त्वरितं प्रसाद्यताम् ॥१४४॥ जगच्चक्षुषं वा रथाङ्गाभिधाना यथा स्तोककाः संमदाद्वारिवाहम् । चकोराः सुधाज्योतिष संस्मरन्ति, तथा संस्मरामो भवद्भव्यलेखम् ॥१४५।। यथाऽहर्मुखे वेदगर्भाः स्ववेदं, विनेया यथा स्वं गुरुं भूरिभक्त्या । रस(सा)लक्षमाजं यथा काकपुष्टास्तथा संस्मरामो भवद्भव्यलेखम् ॥१४६॥ यथा लब्धवर्णाः स्वकं शास्त्रवृन्दं यथाऽनेकपाः सल्लकीशाखिखण्डम् । यथा मानसं मानसौक:कलापास्तथा संस्मरामो भवद्भव्यलेखम् ॥१४७॥ भूमीतलावनतमौलिविराजितस्य श्रीतातपादगुणसंस्मृतितत्परस्य । तातैः सदा निजविनेयकणस्य कामं स्वज्ञानगोचरतया प्रणतिविधेया ॥१४॥ अथावत्यश्राद्धनामानि ॥ अत्रत्यानघसंघधूर्वहसमः श्रीआब्दिके पर्वणि प्रत्यब्दं समसंघभक्तिकरणप्रावीण्यलब्धोदयः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.520516
Book TitleAnusandhan 2000 00 SrNo 16
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2000
Total Pages254
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy