________________
अनुसंधान-१६ . 24 वक्त्रेन्दुजितवांश्च मां भुवि रुचा श्रीमद्गुरोकॊम्न्यलं स्वर्भाणोस्तु बिभोमि शम्भुशिरसि प्रोत्सप्पिकण्ठोरगात् ॥१३२॥ श्रीमदच्चन्द्रगणाधिपाग्रवदनस्फूर्जत्कियज्ज्योतिषां स्तेयं कर्तुमिव प्रसारयति नक्तं [भो ! नूनं ?] शशी स्वान् करान् । तद् बुध्वा परिवेषचारसदनेऽक्षप्सीद्विधिस्तं ततः प्रारभ्येति निरीक्ष्य कोऽपि कुरुतां नो स्तेयभावं कदा ॥१३३॥ घृष्टा ग्रावणि ते तनूर्मलयजार्चिष्मत्प्रवेशोऽजनि स्पष्टं हे वरकाकतुण्ड ! नितरां यन्मर्दनं ते शशिन् ! । तत् कस्मात् ? शृणु सादरं गुरुमुखश्वासाधिकस्पर्धनात् तच्छ्रुत्वा स्म जहत्यशेषमपि तत् सातार्थिनस्ते पुरः ॥१३४॥ भो मुक्ताफलचक्रवाल ! भवता यन्मग्नमम्भोनिधौ यद्वेधादिमहाव्यथां च सहसे तबीजमज्ञासिषम् । तत् किं ? ब्रूहि, शृणु त्वया किल पुरा स्पर्धा मुधा निर्ममेऽत्यन्तं शुभ्रतरैद्विजैश्च सुगरोनिर्ग्रन्थचूडामणेः ॥१३५॥ हे रक्ताङ्क ! चयत्वमे.... ती धन्योऽसि येन त्वया कृत्वा रक्तरदच्छदः शमिविभोळवर्ण्यते शिक्षितैः । तत्पुण्यादिव लब्धवानसि सखे ! सौभाग्यभङ्गी ता(त)था त्वत्पा[द?][ग्रह]णोद्यताः कजदृशः सन्तीह सर्वा यथा ॥१३६॥ त्वं जानासि हि नैव मन्दिरमणे ! यद्वारुणः पञ्जरे स्पष्टं कष्टभरे पपान निबिडे कस्मादघा... त् । शुश्रूषा भवतोऽस्ति चेच्छृणु तदा श्रीमद्गुरो सिकास्पर्धा मुग्धतया व्यधायि भवता तां विद्धि तत्कारणम् ॥१३७॥ आत्मीयकीर्तिपरिपूरितदिग्विभागा ये सन्ति भूमिवलये भुवनावतंसाः । श्रीमानकब्बरधराधिपतिनिरीक्ष्य यान् मोदमाप तरणीनिव चक्रवाकः ॥१३८॥ स्वात्मा तपश्चरणचारुगुणप्रकयनितः सरिदधीश इवाग्ररत्नैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org